🪷 अरण्यकाण्ड · Sarga 69
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 69 · 51 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.69local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
कृत्वा एवम् उदकम् तस्मै प्रस्थितौ राघवौ तदा ।अवेक्षन्तौ वने सीताम् जग्मतुः पश्चिमाम् दिशम् ॥३-६९-१॥
ताम् दिशम् दक्षिणाम् गत्वा शर चाप असि धारिणौ ।अविप्रहतम् ऐक्ष्वाकौ पन्थानम् प्रतिपेदतुः ॥३-६९-२॥
गुल्मैः वृक्षैः च बहुभिः लताभिः च प्रवेष्टितम् ।आवृतम् सर्वतो दुर्गम् गहनम् घोर दर्शनम् ॥३-६९-३॥
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणाम् दिशम् ।सु भीमम् तन् महाअरण्यम् व्यतियातौ महाबलौ ॥३-६९-४॥
ततः परम् जनस्थानात् त्रि क्रोशम् गम्य राघवौ ।क्रौंच अरण्यम् विविशतुः गहनम् तौ महौजसौ ॥३-६९-५॥
नाना मेघ घन प्रख्यम् प्रहृष्टम् इव सर्वतः ।नाना वर्णैः शुभैः पुष्पैः मृग पक्षि गणैः युतम् ॥३-६९-६॥
दिदृक्षमाणौ वैदेहीम् तत् वनम् तौ विचिक्यतुः ।तत्र तत्र अवतिष्ठन्तौ सीता हरण दुःखितौ ॥३-६९-७॥
ततः पूर्वेण तौ गत्वा त्रि क्रोसम् भ्रातरु तदा ।क्रौंचारण्यम् अतिक्रम्य मातंग आश्रम अंतरा ॥३-६९-८॥
दृष्टा तु तद् वनम् घोरम् बहु भीम मृग द्विजम् ।नाना वृक्ष समाकीर्णम् सर्वम् गहन पादपम् ॥३-६९-९॥
ददृशाः ते गिरौ तत्र दरीम् डशरथ आत्मजौ ।पाताल सम गम्भीराम् तमसा नित्य संवृताम् ॥३-६९-१०॥
आसाद्य च नरव्याघ्रौ दर्याः तस्या अविदूरतः ।ददर्श तु महारूपाम् रक्षसीम् विकृत आननाम् ॥३-६९-११॥
भयदाम् अल्प सत्त्वानाम् भीभत्साम् रौद्र दर्शनाम् ।लंबोदरीम् तीक्ष्ण दंष्ट्राम् करालीम् परुष त्वचम् ॥३-६९-१२॥
भक्षयन्तीम् मृगान् भीमान् विकटाम् मुक्त मूर्धजाम् ।अवैक्षताम् तु तौ तत्र भ्रातरौ राम लक्ष्मणौ ॥३-६९-१३॥
सा समासाद्य तौ वीरौ व्रजन्तम् भ्रातुः अग्रतः ।एहि रंस्यावहे इति उक्त्वा समालंबत लक्ष्मणम् ॥३-६९-१४॥
उवाच च एनम् वचनम् सौमित्रिम् उपगुह्य सा ।अहम् तु अयोमुखी नाम लाभः ते त्वम् असि प्रियः ॥३-६९-१५॥
नाथ पर्वत दुर्गेषु नदीनाम् पुलिनेषु च ।आयुः चिरम् इदम् वीर त्वम् मया सह रंस्यसे ॥३-६९-१६॥
एवम् उक्तः तु कुपितः खडगम् उद्धृत्य लक्ष्मणः ।कर्ण नास स्तनम् तस्या निचकर्ता अरिसूदनः ॥३-६९-१७॥
कर्ण नासे निकृत्ते तु विस्वरम् विननाद सा ।यथा आगतम् प्रदुद्राव राक्षसी घोर दर्शना ॥३-६९-१८॥
तस्याम् गतायाम् गहनम् व्रजन्तौ वनम् ओजसा ।आसेदतुः अरि मित्र घ्नौ भ्रातरौ राम लक्ष्मणौ ॥३-६९-१९॥
लक्ष्मणः तु महातेजाः सत्त्ववान् शीलवान् शुचिः ।अब्रवीत् प्रांजलिः वाक्यम् भ्रातरम् दीप्त तेजसम् ॥३-६९-२०॥
स्पंदन्ते मे दृढम् बाहुः उद्विग्नम् इव मे मनः ।प्रायशः च अपि अनिष्टानि निमित्तानि उपलक्षये ॥३-६९-२१॥
तस्मात् सज्जी भव आर्य त्वम् कुरुष्व वचनम् हितम् ।मम एव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥३-६९-२२॥
एष वंजुलको नाम पक्षी परम दारुणः ।आवयोः विजयम् युद्धे शंसन् इव विनर्दति ॥३-६९-२३॥
तयोः अन्वेषतोः एवम् सर्वम् तत् वनम् ओजसा ।संजज्ञे विपुलः शब्दः प्रभंजन् इव तत् वनम् ॥३-६९-२४॥
संवेष्टितम् इव अत्यर्थम् गहनम् मातरिश्वना ।वनस्य तस्य शब्दो अभूत् दिवम् आपूरयन् इव ॥३-६९-२५॥
तम् शब्दम् कांक्षमाणः तु रामः खड्गी सह अनुजः ।ददर्श सु महा कायम् राक्षसम् विपुल उरसम् ॥३-६९-२६॥
आसेदतुः च तत् रक्षः तौ उभौ प्रमुखे स्थितम् ।विवृद्धम् अ-शिरो ग्रीवम् कबंधम् उदरे मुखम् ॥३-६९-२७॥
रोमभिर्निश्चितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् - यद्वा -रोमभिः निचितैः तीक्ष्णैः महागिरिम् इव उच्छ्रितम् ।नील मेघ निभम् रौद्रम् मेघ स्तनित निःस्वनम् ॥३-६९-२८॥
अग्नि ज्वाल निकाशेन ललाटस्थेन दीप्यता ।महापक्षेण पिंगेन विपुलेन आयतेन च ॥३-६९-२९॥
एकेन उरसि घोरेण नयनेन आशु दर्शिना ।महा दंष्ट्र उपपन्नम् तम् लेलिहानम् महा मुखम् ॥३-६९-३०॥
भक्षयंतम् महा घोरान् ऋक्ष सिम्ह मृग द्विपान् ।घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ ॥३-६९-३१॥
कराभ्याम् विविधान् गृह्य ऋक्षान् पक्षि गणान् मृगान् ।आकर्षन्तम् विकर्षन्तम् अनेकान् मृग यूथपान् ॥३-६९-३२॥
स्थितम् आवृत्य पन्थानम् तयोः भ्रात्रोः प्रपन्नयोः ।अथ तम् समतिक्रम्य क्रोश मात्रम् ददर्शतुः ॥३-६९-३३॥
महान्तम् दारुणम् भीमम् कबंधम् भुज संवृतम् ।कबंधम् इव संस्थानत् अति घोर प्रदशनम् ॥३-६९-३४॥
स महा बाहुः अत्यर्थम् प्रसार्य विपुलौ भुजौ ।जग्राह सहितौ एव राघवौ पीडयन् बलात् ॥३-६९-३५॥
खड्गिनौ दृढ धन्वानौ तिग्म तेजौ महा भुजौ ।भ्रातरौ विवशम् प्राप्तौ कृष्यमाणौ महा बलौ ॥३-६९-३६॥
तत्र धैर्यात् च शूराः तु राघवो न एव विव्यधे ।बाल्यात् अनाश्रयत्वात् च एव लक्ष्मणः तु अतिविव्यधे ॥३-६९-३७॥
उवाच च विषण्णम् सन् राघवम् राघव अनुजः ।पश्य माम् विवशम् वीर राक्षसस्य वशम् गतम् ॥३-६९-३८॥
मया एकन तु निर्युक्तः परिमुच्यस्व राघव ।माम् हि भूत बलिम् दत्त्वा पलास्व यथा सुखम् ॥३-६९-३९॥
अधिगंता असि वैदेहीम् अचिरेण इति मे मतिः ।प्रति लभ्य च काकुत्स्थ पितॄ पैतामहम् महीम् ॥३-६९-४०॥
तत्र माम् राम राज्यस्थः स्मर्तुम् अर्हसि सर्वदा ।लक्ष्मणेन एवम् उक्तः तु रामः सौमित्रिम् अब्रवीत् ॥३-६९-४१॥
मा स्म त्रासम् वृथा वीर न हि त्वा दृक् विषीदति ।एतस्मिन् अन्तरे क्रूरो भ्रातरौ राम लक्ष्मणौ ॥३-६९-४२॥
तौ उवाच महाबाहुः कबन्धो दानव उत्तमः ।कौ युवाम् वृषभ स्कन्धौ महा खड्ग धनुर् धरौ ॥३-६९-४३॥
घोरम् देशम् इमम् प्राप्तौ दैवेन मम चाक्षुषौ ।वदतम् कार्यम् इह वाम् किम् अर्थम् च आगतौ युवाम् ॥३-६९-४४॥
इमम् देशम् अनुप्राप्तौ क्षुधा आर्तस्य इह तिष्ठतः ।स बाण चाप खड्गौ च तीक्ष्ण शृंगौ इव ऋषभौ ॥३-६९-४५॥
मम तूर्णम् उपसंप्राप्तौ दुर्लभम् जीवितम् वाम् ।तस्य तत् वचनम् श्रुत्वा कबंधस्य दुरात्मनः ॥३-६९-४६॥
उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ।कृच्छ्रात् कृच्छ्रतरम् प्राप्य दारुणम् सत्य विक्रम ॥३-६९-४७॥
व्यसनम् जीवित अन्ताय प्राप्तम् अप्राप्य ताम् प्रियाम् ।कालस्य सुमहत् वीर्यम् सर्व भूतेषु लक्ष्मण ॥३-६९-४८॥
त्वाम् च माम् च नरव्याघ्र व्यसनैः पश्य मोहितौ ।न हि भारो अस्ति दैवस्य सर्व भुतेषु लक्ष्मण ॥३-६९-४९॥
शूराः च बलवंतः च कृत अस्त्राः च रण आजिरे ।काल अभिपन्नाः सीदन्ति यथा वालुक सेतवः ॥३-६९-५०॥
इति ब्रुवाणो दृढ सत्य विक्रमोमहायशा दाशरथिः प्रतापवान् ।अवेक्ष्य सौमित्रिम् उदग्र विक्रमम्स्थिराम् तदा स्वाम् मतिम् आत्मना अकरोत् ॥३-६९-५१॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 68
- Next: Araṇya-Kāṇḍa Sarga 70 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷