🪷 अरण्यकाण्ड · Sarga 68
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 68 · 38 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.68local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥
मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥
अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥
किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥
कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥
कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥
तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥
परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥
येन याति मुहूर्तेन सीताम् आदाय रावणः ।विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥
विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥
असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥
तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥
बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥
अनेक वार्षिको यः तु चिर काल समुत्थितः ।सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥
पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥
गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥
सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥
सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥
राजा दशरथः श्रीमान् यथा मम मया यशाः ।पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥
नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥
या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥
मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३-६८-३१॥
रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३-६८-३२॥
रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३-६८-३३॥
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३-६८-३४॥
ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥
शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३-६८-३६॥
स गृध्र राजः कृतवान् यशस्करम्सु दुष्करम् कर्म रणे निपातितः ।महर्षि कल्पेन च संस्कृतः तदाजगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥
कृतोदकौ तौ अपि पक्षि सत्तमेस्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।प्रवेश्य सीता अधिगमने ततो मनोवनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 67
- Next: Araṇya-Kāṇḍa Sarga 69 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷