🪷 अरण्यकाण्ड · Sarga 67
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 67 · 29 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.67local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
पूर्वजो अपि उक्त मात्रः तु लक्ष्मणेन सुभाषितम् ।सार ग्राही महासारम् प्रतिजग्राह राघवः ॥३-६७-१॥
स निगृह्य महाबाहुः प्रवृद्धम् रोषम् आत्मनः ।अवष्टभ्य धनुः चित्रम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-२॥
किम् करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।केन उपायेन पश्येयम् सीताम् इह विचिन्तय ॥३-६७-३॥
तम् तथा परिताप आर्तम् लक्ष्मणो रामम् अब्रवीत् ।इदम् एव जनस्थानम् त्वम् अन्वेषितुम् अर्हसि ॥३-६७-४॥
राक्षसैः बहुभिः कीर्णम् नाना द्रुम लता आयुतम् ।सन्ति इह गिरि दुर्गाणि निर्दराः कंदराणि च ॥३-६७-५॥
गुहाः च विविधा घोरा नाना मृग गण आकुलाः ।आवासाः किन्नराणाम् च गन्धर्व भवनानि च ॥३-६७-६॥
तानि युक्तो मया सार्धम् समन्वेषितुम् अर्हसि ।त्वत् विधा बुद्धि संपन्ना माहात्मानो नरर्षभ ॥३-६७-७॥
आपत्सु न प्रकंपन्ते वायु वेगैः इव अचलाः ।इति उक्तः तत् वनम् सर्वम् विचचार स लक्ष्मणः ॥३-६७-८॥
क्रुद्धो रामः शरम् घोरम् संधाय धनुषि क्षुरम् ।ततः पर्वत कूट आभम् महा भागम् द्विज उत्तमम् ॥३-६७-९॥
ददर्श पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।तम् दृष्ट्वा गिरि शृंग आभम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-१०॥
अनेन सीता वैदेही भक्षिता न अत्र संशयः ।गृध्र रूपम् इदम् व्यक्तम् रक्षो भ्रमति काननम् ॥३-६७-११॥
भक्षयित्वा विशालाक्षीम् आस्ते सीताम् यथा सुखम् ।एनम् वधिष्ये दीप्त अग्रैः घोरैः बाणैः अजिह्मगैः ॥३-६७-१२॥
इति उक्त्वा अभ्यपतत् गृध्रम् सन्धाय धनुषि क्षुरम् ।क्रुद्धो रामः समुद्र अन्ताम् चालयन् इव मेदिनीम् ॥३-६७-१३॥
तम् दीन दीनया वाचा स फेनम् रुधिरम् वमन् ।अभ्यभाषत पक्षी तु रामम् दशरथ आत्मजम् ॥३-६७-१४॥
याम् ओषधिम् इव आयुष्मन् अन्वेषसि महा वने ।सा देवी मम च प्राणा रावणेन उभयम् हृतम् ॥३-६७-१५॥
त्वया विरहिता देवी लक्ष्मणेन च राघव ।ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥३-६७-१६॥
सीताम् अभ्यवपन्नो अहम् रावणः च रणे मया ।विध्वंसित रथः च अत्र पातितो धरणी तले ॥३-६७-१७॥
एतत् अस्य धनुः भग्नम् एतत् अस्य शरावरम् ।अयम् अस्य रणे राम भग्नः सांग्रामिको रथः ॥३-६७-१८॥
अयम् तु सारथिः तस्य मत् पक्ष निहतो भुविः ।परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥३-६७-१९॥
सीताम् आदाय वैदेहीम् उत्पपात विहायसम् ।रक्षसा निहतम् पूर्वम् न माम् हन्तुम् त्वम् अर्हसि ॥३-६७-२०॥
रामः तस्य तु विज्ञाय सीता सक्ताम् प्रियाम् कथाम् ।गृध्र राजम् परिष्वज्य परित्यज्य महत् धनुः ॥३-६७-२१॥
निपपात अवशो भूमौ रुरोद सह लक्ष्मण ।द्विगुणीकृत ताप आर्तो रामो धीरतरो अपि सन् ॥३-६७-२२॥
एकम् एक अयने कृच्छ्रे निःश्वसन्तम् मुहुर् मुहुः ।समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् ॥३-६७-२३॥
राज्यम् भ्रष्टम् वने वासः सीता नष्टा मृते द्विजः ।ईदृशी इयम् मम अलक्ष्मीः दहेत् अपि पावकम् ॥३-६७-२४॥
संपूर्णम् अपि चेत् अद्य प्रतरेयम् महोदधिम् ।सो अपि नूनम् मम अलक्ष्म्या विशुष्येत् सरिताम् पतिः ॥३-६७-२५॥
न अस्ति अभाग्यतरो लोके मत्तो अस्मिन् स चराचरे ।येन इयम् महती प्राप्ता मया व्यसन वागुरा ॥३-६७-२६॥
अयम् पितृ वयस्यो मे गृध्र राजो जरा अन्वितः ।शेते विनिहतो भूमौ मम भाग्य विपर्ययात् ॥३-६७-२७॥
इति एवम् उक्त्वा बहुशो राघवः सह लक्ष्मणः ।जटायुषम् च पस्पर्श पितृ स्नेहम् निदर्शयन् ॥३-६७-२८॥
निकृत्त पक्षम् रुधिर अवसिक्तम्तम् गृध्र राजम् परिरभ्य रामः ।क्व मैथिलि प्राण समा मम इतिविमुच्य वाचम् निपपात भूमौ ॥३-६७-२९॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 66
- Next: Araṇya-Kāṇḍa Sarga 68 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷