🪷 अरण्यकाण्ड · Sarga 66
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 66 · 21 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.66local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् तथा शोक संतप्तम् विलपंतम् अनाथवत् ।मोहेन महता आविष्टम् परिद्यूनम् अचेतनम् ॥३-६६-१॥
ततः सौमित्रिः आश्वास्य मुहूर्तात् इव लक्ष्मणः ।रामम् संबोधयामास चरणौ च अभिपीडयन् ॥३-६६-२॥
महता तपसा राम महता च अपि कर्मणा ।राज्ञा दशरथेन असि लब्धो अमृतम् इव अमरैः ॥३-६६-३॥
तव चैव गुणैः बद्धः त्वत् वियोगात् महिपतिः ।राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् ॥३-६६-४॥
यदि दुःखम् इदम् प्राप्तम् काकुत्स्थ न सहिष्यसे ।प्राकृतः च अल्प सत्त्वः च इतरः कः सहिष्यति ॥३-६६-५॥
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य न आपद ।संस्पृशन्ति अग्निवत् राजन् क्षणेन व्यपयान्ति च ॥३-६६-६॥
दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते ।आर्ताः प्रजा नर व्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥३-६६-७॥
लोक स्वभाव एव एष ययातिः नहुष आत्मजः ।गतः शक्रेण सालोक्यम् अनयः तम् समस्पृशत् ॥३-६६-८॥
महाऋषि यः वसिष्ठः तु यः पितुः नः पुरोहितः ।अह्ना पुत्र शतम् जज्ञे तथैव अस्य पुनर् हतम् ॥३-६६-९॥
या च इयम् जगतो माता सर्व लोक नमस्कृता ।अस्याः च चलनम् भूमेः दृश्यते कोसलेश्वर ॥३-६६-१०॥
यौ धर्मौ जगताम् नेत्रे यत्र सर्वम् प्रतिष्ठितम् ।आदित्य चन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ ॥३-६६-११॥
सुमहान्ति अपि भूतानि देवाः च पुरुष ऋषभ ।न दैवस्य प्रमुंचन्ति सर्व भूतानि देहिनः ॥३-६६-१२॥
शक्र आदिषु अपि देवेषु वर्तमानौ नय अनयौ ।श्रूयेते नर शार्दूल न त्वम् व्यथितुम् अर्हसि ॥३-६६-१३॥
हृतायाम् अपि वैदेह्याम् नष्टायाम् अपि राघव ।शोचितुम् न अर्हसे वीर यथा अन्यः प्राकृतः तथा ॥३-६६-१४॥
त्वत् विधा नहि शोचन्ति सततम् सर्व दर्शिनः ।सुमहत्सु अपि कृच्छ्रेषु राम अनिर्विण्ण दर्शनाः ॥३-६६-१५॥
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिंतय ।बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभ अशुभे ॥३-६६-१६॥
अदृष्ट गुण दोषाणाम् अधृवाणाम् च कर्मणाम् ।न अंतरेण क्रियाम् तेषाम् फलम् इष्टम् च वर्तते ॥३-६६-१७॥
माम् एवम् हि पुरा वीर त्वम् एव बहुशो उक्तवान् ।अनुशिष्यात् हि को नु त्वाम् अपि साक्षात् बृहस्पतिः ॥३-६६-१८॥
बुद्धिः च ते महाप्राज्ञ देवैः अपि दुर्अन्वया ।शोकेन अभिप्रसुप्तम् ते ज्ञानम् सम्बोधयामि अहम् ॥३-६६-१९॥
दिव्यम् च मानुषम् च एवम् आत्मनः च पराक्रमम् ।इक्ष्वाकु वृषभ अवेक्ष्य यतस्व द्विषताम् वधे ॥३-६६-२०॥
किम् ते सर्व विनाशेन कृतेन पुरुष ऋषभ ।तम् एव तु रिपुम् पापम् विज्ञाय उद्धर्तुम् अर्हसि ॥३-६६-२१॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 65
- Next: Araṇya-Kāṇḍa Sarga 67 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷