🪷 अरण्यकाण्ड · Sarga 65
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 65 · 16 ślokas
🪷 Devanāgarī Ślokas
तप्यमानम् तथा रामम् सीता हरण कर्शितम् ।लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥३-६५-१॥
वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पुनः पुनः ।दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥३-६५-२॥
अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः ।अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३-६५-३॥
पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः ।न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥३-६५-४॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा ।एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥३-६५-५॥
एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि ।न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥३-६५-६॥
केन वा कस्य वा हेतोः स आयुधः स परिच्छदः ।खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥३-६५-७॥
देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज ।एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥३-६५-८॥
न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् ।न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥३-६५-९॥
युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः ।सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥३-६५-१०॥
को नु दार प्रणाशम् ते साधु मन्येत राघव ।सरितः सागराः शैला देव गन्धर्व दानवाः ॥३-६५-११॥
न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः ।येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥३-६५-१२॥
मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः ।समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥३-६५-१३॥
गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा ।देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥३-६५-१४॥
यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् ।न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः ।कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥३-६५-१५॥
शीलेन साम्ना विनयेन सीताम्नयेन न प्राप्स्यसि चेत् नरेन्द्र ।ततः समुत्सादय हेम पुंखैःमहेन्द्र वज्र प्रतिमैः शर ओघैः ॥३-६५-१६॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 64
- Next: Araṇya-Kāṇḍa Sarga 66 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷