🪷 अरण्यकाण्ड · Sarga 64
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 64 · 77 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.64local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् ।शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥
नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥
नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥
न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥
भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥
रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥
निराशः तु तया नद्या सीताया दर्शने कृतः ।उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥
एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥
मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥
वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥
क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥
दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥
तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥
उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥
दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥
यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥
लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥
वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥
उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥
अपिनद्धानि वैदेह्या मया दत्तानि कानने ।मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥
उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग सुंदरीम् ॥३-६४-२९॥
रामा रम्ये वनोद् देशे मया विरहिता त्वया ।क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा ॥३-६४-३०॥
ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत ।यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥
एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति ।दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥
ततो दाशरथी राम उवाच शिलोच्चयम् ।मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥
असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः ।इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥
यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् ।एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥
ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् ।त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥
राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु ।स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥
भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् ।संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥
पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः ।भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥
तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः ।आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥
मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः ।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥
तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः ।बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥
मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् ।धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥
राक्षसानाम् इदम् वस्त सुराणाम् अधवा अपि ।तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥
विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् ।छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥
भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् ।कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥
भीम रूपा महाकायाः कस्य वा निहता रणे ।दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥
अपविद्धः च भग्नः च कस्य सांग्रामिको रथः ।रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥
कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः ।शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥
प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः ।पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥
वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् ।सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥
हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥
भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण ।के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥
कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् ।अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥
मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् ।निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥
माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥
संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः ।संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥
न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ।किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥
मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण ।असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥
संनिरुद्धग्रहगणमावारितनिशाकरम् ।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्।यद्व -संनिरुद्ध ग्रह गणम् आवारित निशा करम् ।विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥
विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् ।ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम्।यद्वा -विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् ।ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥
त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल कर्मणा ।न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥
मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् ।मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥
समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण ।आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः।यद्वा -आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥
करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् ।मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥
द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् ।न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥
बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः ।यद्वा -बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः ।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः।यद्वा -निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥
हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः ।तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥
नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् ।यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥
इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः ।वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥
तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः ।त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥
लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् ।शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥
संदधे धनुषि श्रीमान् रामः पर पुरंजयः ।युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥
यथा जरा यथा मृत्युः यथा कालो यथा विधिः ।नित्यम् न प्रतिहन्यन्ते सर्व भूतेषु लक्ष्मण ।तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥
पुरा इव मे चारु दतीम् अनिन्दिताम्दिशन्ति सीताम् यदि न अद्य मैथिलीम् ।सदेव गन्धर्व मनुष्य पन्नगम्जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 63
- Next: Araṇya-Kāṇḍa Sarga 65 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷