🪷 अरण्यकाण्ड · Sarga 63
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 63 · 20 ślokas
🪷 Devanāgarī Ślokas
स राज पुत्र प्रिया विहीनःशोकेन मोहेन च पीड्यमानः ।विषादयन् भ्रातरम् आर्त रूपोभूयो विषादम्प्रविवेश तीव्रम् ॥३-६३-१॥
स लक्ष्मणम् शोक वश अभिपन्नम्शोके निमग्नो विपुले तु रामः ।उवाच वाक्यम् व्यसनानुरूपम्उष्णम् विनिःश्वस्य रुदन् स शोकम् ॥३-६३-२॥
न मत् विधो दुष्कृत कर्म कारीमन्ये द्वितीयो अस्ति वसुंधरायाम् ।शोक अनुशोको हि परंपरायामाम् एति भिन्दन् हृदयम् मनः च ॥३-६३-३॥
पूर्वम् मया नूनम् अभीप्सितानिपापानि कर्माणि असत्कृत् कृतानि ।तत्र अयम् अद्य पतितो विपाकोदुःखेन दुःखम् यद् अहम् विशामि ॥३-६३-४॥
राज्य प्रणाशः स्व जनैः वियोगःपितुर् विनाशो जननी वियोगः ।सर्वानि मे लक्ष्मण शोक वेगम्आपूरयन्ति प्रविचिन्तितानि ॥३-६३-५॥
सर्वम् तु दुःखम् मम लक्ष्मण इदम्शान्तम् शरीरे वनम् एत्य क्लेशम् ।सीता वियोगात् पुनर् अपि उदीर्णम्काष्टैः इव अग्निः सहसा प्रदीप्तः ॥३-६३-६॥
सा नूनम् आर्या मम राक्षसेन हिअभ्याहृता खम् समुपेत्य भीरुः ।अपस्वरम् सु स्वर विप्रलापाभयेन विक्रन्दितवति अभीक्ष्णम् ॥३-६३-७॥
तौ लोहितस्य प्रिय दर्शनस्यसदा उचितौ उत्तम चंदनस्य ।वृत्तौ स्तनौ शोणित पंक दिग्धौनूनम् प्रियाया मम न अभिभात ॥३-६३-८॥
तत् श्लक्ष्ण सु व्यक्त मृदु प्रलापम्तस्या मुखम् कुंचित केश भारम् ।रक्षो वशम् नूनम् उपगतायान भ्राजते राहु मुखे यथा इंदुः ॥३-६३-९॥
ताम् हार पाशस्य सदा उचित अंतम्ग्रीवाम् प्रियाया मम सु व्रताया ।रक्षांसि नूनम् परिपीतवन्तिशून्ये हि भित्वा रुधिर अशनानि ॥३-६३-१०॥
मया विहीना विजने वने यारक्षोभिः आहृत्य विकृष्यमाणा ।नूनम् विनादम् कुररि इव दीनासा मुक्तवती आयत कान्त नेत्रा ॥३-६३-११॥
अस्मिन् मया सार्थम् उदार शीलाशिला तले पूर्वम् उपोपविष्टा ।कान्त स्मिता लक्ष्मण जात हासात्वाम् आह सीता बहु वाक्य जातम् ॥३-६३-१२॥
गोदावरी इयाम् सरिताम् वरिष्टाप्रिया प्रियाया मम नित्य कालम् ।अपि अत्र गच्छेत् इति चिंतयामिन एकाकिनी याति हि सा कदाचित् ॥३-६३-१३॥
पद्म आनना पद्म पलाश नेत्रापद्मानि वा आनेतुम् अभिप्रयाता ।तत् अपि अयुक्तम् न हि सा कद्दचित्मया विना गच्छति पंकजानि ॥३-६३-१४॥
कामम् तु इदम् पुष्पित वृक्ष सण्डम्नाना विधैः पक्षि गणैः उपेतम् ।वनम् प्रयाता नु तत् अपि अयुक्तम्एकाकिनी सा अति बिभेति भीरुः ॥३-६३-१५॥
आदित्य भो लोक क्रृत अकृत ज्ञःलोकस्य सत्य अनृत कर्म साक्षिन् ।मम प्रिया सा क्व गता हृता वाशंसव मे शोक हतस्य सर्वम् ॥३-६३-१६॥
लोकेषु सर्वेषु न नास्ति किंचित्यत् ते न नित्यम् विदितम् भवेत् तत् ।शंसस्व वयोः कुल शालिनीम् ताम्मृता हृता वा पथि वर्तते वा ॥३-६३-१७॥
इति इव तम् शोक विधेय देहम्रामम् विसंज्ञम् विलपंतम् एव ।उवाच सौमित्रिःअदीन सत्त्वःन्याये स्थितः काल युतम् च वाक्यम् ॥३-६३-१८॥
शोकम् विमुंच आर्य धृतिम् भजस्वसह उत्साहता च अस्तु विमार्गणे अस्याः ।उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मसु अति दुष्करेषु ॥३-६३-१९॥
इति इव सौमित्रिम् उदग्र पौरुषम्ब्रुवन्तम् आर्तो रघु वंश वर्धनः ।न चिंतयामास धृतिम् विमुक्तवान्पुनः च दुःखम् महत् अभ्युपागमत् ॥३-६३-२०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 62
- Next: Araṇya-Kāṇḍa Sarga 64 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷