🪷 किष्किन्धाकाण्ड · Sarga 2

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 2 · 29 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.2local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.2.1
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम लक्ष्मणौ ।वर आयुध धरौ वीरौ सुग्रीवः श्ङ्कितोऽभवत् ॥४-२-१॥
Vālmīki 4.2.2
उद्विग्न हृदयः सर्वा दिशः समवलोकयन् ।न व्यतिष्ठत कस्मिन् चित् देशे वानर पुङ्गवः ॥४-२-२॥
Vālmīki 4.2.3
नैव चक्रे मनः स्थातुम् वीक्षमाणो महाबलौ ।कपेः परम भीतस्य चित्तम् व्यवससाद ह ॥४-२-३॥
Vālmīki 4.2.4
चिन्तयित्वा स धर्मात्मा विमृश्य गुरु लाघवम् ।सुग्रीवः परम उद्विग्नः सर्वैः तैः वानरैः सह ॥४-२-४॥
Vālmīki 4.2.5
ततः स सचिवेभ्यः तु सुग्रीवः प्लवगाधिपः ।शशंस परम उद्विग्नः पश्यन् तौ राम लक्ष्मणौ ॥४-२-५॥
Vālmīki 4.2.6
एतौ वनम् इदम् दुर्गम् वालि प्रणिहितौ ध्रुवम् ।छद्मना चीर वसनौ प्रचरन्तौ इह आगतौ ॥४-२-६॥
Vālmīki 4.2.7
ततः सुग्रीव सचिवा दृष्ट्वा परम धन्विनौ ।जग्मुः गिरि तटात् तस्माद् अन्यत् शिखरम् उत्तमम् ॥४-२-७॥
Vālmīki 4.2.8
ते क्षिप्रम् अभिगम्य अथ यूथपा यूथपर्षभम् ।हरयो वानर श्रेष्ठम् परिवार्य उपतस्थिरे ॥४-२-८॥
Vālmīki 4.2.9
एवम् एक आयन गताः प्लवमाना गिरेः गिरिम् ।प्रकंपयन्तो वेगेन गिरीणाम् शिखराणि च ॥४-२-९॥
Vālmīki 4.2.10
ततः शाखा मृगाः सर्वे प्लवमाना महाबलाः ।बभंजुः च नगान् तत्र पुष्पितान् दुर्गम् आश्रितान् ॥४-२-१०॥
Vālmīki 4.2.11
आप्लवन्तो हरिवराः सर्वतः तम् महागिरिम् ।मृग मार्जार शार्दूलान् त्रासयन्तो ययुः तदा ॥४-२-११॥
Vālmīki 4.2.12
ततः सुग्रीव सचिवाः पर्वतेन्द्रे समाहिताः ।संगम्य कपि मुख्येन सर्वे प्रांजलयः स्थिताः ॥४-२-१२॥
Vālmīki 4.2.13
ततः तु भय संत्रस्तम् वालि किल्बिष शन्कितम् ।उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य कोविदः ॥४-२-१३॥
Vālmīki 4.2.14
संभ्रमः त्यजताम् एष सर्वैः वालि कृते महान् ।मलयोऽयम् गिरिवरो भयम् न इह अस्ति वालिनः ॥४-२-१४॥
Vālmīki 4.2.15
यस्मात् उद्विग्न चेताः त्वम् विद्रुतो हरिपुंगव ।तम् क्रूर दर्शनम् क्रूरम् न इह पश्यामि वालिनम् ॥४-२-१५॥
Vālmīki 4.2.16
यस्मात् तव भयम् सौम्य पूर्वजात् पाप कर्मणः ।स न इह वाली दुष्टात्मा न ते पश्यामि अहम् भयम् ॥४-२-१६॥
Vālmīki 4.2.17
अहो शाखा मृगत्वम् ते व्यक्तम् एव प्लवंगम ।लघु चित्ततया आत्मानम् न स्थापयसि यो मतौ ॥४-२-१७॥
Vālmīki 4.2.18
बुद्धि विज्ञान संपन्न इङ्गितैः सर्वम् आचर ।न हि अबुद्धिम् गतो राजा सर्व भूतानि शास्ति हि ॥४-२-१८॥
Vālmīki 4.2.19
सुग्रीवः तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः ।ततः शुभतरम् वाक्यम् हनूमन्तम् उवाच ह ॥४-२-१९॥
Vālmīki 4.2.20
दीर्घ बाहू विशालाक्षौ शर चाप असि धारिणौ ।कस्य न स्यात् भयम् दृष्ट्वा हि एतौ सुर सुत उपमौ ॥४-२-२०॥
Vālmīki 4.2.21
वालि प्रणिहितौ एव शन्के अहम् पुरुषोत्तमौ ।राजानो बहु मित्राः च विश्वासो न अत्र हि क्षमः ॥४-२-२१॥
Vālmīki 4.2.22
अरयः च मनुष्येण विज्ञेयाः छद्म चारिणः ।विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति अपि ॥४-२-२२॥
Vālmīki 4.2.23
कृत्येषु वाली मेधावी राजानो बहु दर्शनः ।भवन्ति पर हन्तारः ते ज्ञेयाः प्राकृतैः नरैः ॥४-२-२३॥
Vālmīki 4.2.24
तौ त्वया प्राकृतेन एव गत्वा ज्ञेयौ प्लवंगम ।इङ्गितानाम् प्रकारैः च रूपव्या भाषणेन च ॥४-२-२४॥
Vālmīki 4.2.25
लक्षयस्व तयोः भावम् प्रहृष्ट मनसौ यदि ।विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनः पुनः ॥४-२-२५॥
Vālmīki 4.2.26
मम एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि पुंगव ।प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुर् धरौ ॥४-२-२६॥
Vālmīki 4.2.27
शुद्ध आत्मानौ यदि एतौ जानीहि त्वम् प्लवंगम ।व्याभाषितैः वा रूपैः वा विज्ञेया दुष्टता अनयोः ॥४-२-२७॥
Vālmīki 4.2.28
इति एवम् कपिराजेन संदिष्टो मारुतात्मजः ।चकार गमने बुद्धिम् यत्र तौ राम लक्ष्मणौ ॥४-२-२८॥
Vālmīki 4.2.29
तथा इति संपूज्य वचः तु तस्य कपेः सुभीतस्य दुरासदस्य ।महानुभावो हनुमान् ययौ तदा स यत्र रामो अतिबली स लक्ष्मणः ॥४-२-२९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷