🪷 किष्किन्धाकाण्ड · Sarga 3
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 3 · 39 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.3local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।पर्वतात् ऋष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥४-३-१॥
कपि रूपम् परित्यज्य हनुमान् मारुतात्मजः ।भिक्षु रूपम् ततो भेजे शठबुद्धितया कपिः ॥४-३-२॥
ततः च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया ।विनीतवत् उपागम्य राघवौ प्रणिपत्य च ॥४-३-३॥
अबभाषे च तौ वीरौ यथावत् प्रशशंस च ।संपूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः ॥४-३-४॥
उवाच कामतो वाक्यम् मृदु सत्य पराक्रमौ ।राजर्षि देव प्रतिमौ तापसौ संशित व्रतौ ॥४-३-५॥
देशम् कथम् इमम् प्राप्तौ भवन्तौ वर वर्णिनौ ।त्रासयन्तौ मृग गणान् अन्याम् च वन चारिणः ॥४-३-६॥
पम्पा तीर रुहान् वृक्षान् वीक्षमाणौ समंततः ।इमाम् नदीम् शुभ जलाम् शोभयन्तौ तरस्विनौ ॥४-३-७॥
धैर्यवन्तौ सुवर्णाभौ कौ युवाम् चीर वाससौ ।निःश्वसन्तौ वर भुजौ पीडयन्तौ इमाः प्रजाः ॥४-३-८॥
सिंह विप्रेक्षितौ वीरौ महाबल पराक्रमौ ।शक्र चाप निभे चापे गृहीत्वा शत्रु नाशनौ ॥४-३-९॥
श्रीमन्तौ रूप संपन्नौ वृषभ श्रेष्ठ विक्रमौ ।हस्ति हस्त उपम भुजौ द्युतिमन्तौ नरर्षभौ ॥४-३-१०॥
प्रभया पर्वत इन्द्रः असौ युवयोः अवभासितः ।राज्य अर्हौ अमर प्रख्यौ कथम् देशम् इह आगतौ ॥४-३-११॥
पद्म पत्र ईक्षणौ वीरौ जटा मण्डल धारिणौ ।अन्योन्य सदृशौ वीरौ देव लोकात् इह आगतौ ॥४-३-१२॥
यदृच्छयेव संप्राप्तौ चन्द्र सूर्यौ वसुंधराम् ।विशाल वक्षसौ वीरौ मानुषौ देव रूपिणौ ॥४-३-१३॥
सिंह स्कन्धौ महा उत्साहौ समदौ इव गोवृषौ ।आयताः च सुवृत्ताः च बाहवः परिघोपमाः ॥४-३-१४॥
सर्व भूषण भूषार्हाः किम् अर्थम् न विभूषिताः ।उभौ योग्यौ अहम् मन्ये रक्षितुम् पृथिवीम् इमाम् ॥४-३-१५॥
स सागर वनाम् कृत्स्नाम् विन्ध्य मेरु विभूषिताम् ।इमे च धनुषी चित्रे श्लक्ष्णे चित्र अनुलेपने ॥४-३-१६॥
प्रकाशेते यथा इन्द्रस्य वज्रे हेम विभूषिते ।संपूर्णाः च शितैः बाणैः तूणाः च शुभ दर्शनाः ॥४-३-१७॥
जीवित अन्तकरैः घोरैः ज्वलद्भिः इव पन्नगैः ।महा प्रमाणौ विपुलौ तप्त हाटक भूषणौ ॥४-३-१८॥
खड्गौ एतौ विराजेते निर्मुक्त भुजगौ इव ।एवम् माम् परिभाषन्तम् कस्माद् वै न अभि भाषतः ॥४-३-१९॥
सुग्रीवो नाम धर्मात्मा कश्चित् वानर पुंगवः ।वीरो विनिकृतो भ्रात्रा जगत् भ्रमति दुःखितः ॥४-३-२०॥
प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना ।राज्ञा वानर मुख्यानाम् हनुमान् नाम वानरः ॥४-३-२१॥
युवाभ्याम् स हि धर्मात्मा सुग्रीवः सख्यम् इच्छति ।तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम् ॥४-३-२२॥
भिक्षु रूप प्रति च्छन्नम् सुग्रीव प्रिय कारणात् ।ऋश्यमूकात् इह प्राप्तम् कामगम् कामचारिणम् ॥४-३-२३॥
एवम् उक्त्वा तु हनुमाम् तौ वीरौ राम लक्ष्मणौ ।वाक्यज्ञो वाक्य कुशलः पुनः न उवाच किंचन ॥४-३-२४॥
एतत् श्रुत्वा वचः तस्य रामो लक्ष्मणम् अब्रवीत् ।प्रहृष्ट वदनः श्रीमान् भ्रातरम् पार्श्वतः स्थितम् ॥४-३-२५॥
सचिवो अयम् कपीन्द्रस्य सुग्रीवस्य महात्मनः ।तम् एव काङ्क्षमाणस्य मम अन्तिकम् इह आगतः ॥४-३-२६॥
तम् अभ्यभाष सौमित्रे सुग्रीव सचिवम् कपिम् ।वाक्यज्ञम् मधुरैः वाक्यैः स्नेह युक्तम् अरिन्दम ॥४-३-२७॥
न अन् ऋग्वेद विनीतस्य न अ\-\-यजुर्वेद धारिणः ।न अ\-\-साम वेद विदुषः शक्यम् एवम् विभाषितुम् ॥४-३-२८॥
नूनम् व्यकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् ।बहु व्याहरता अनेन न किंचित् अप शब्दितम् ॥४-३-२९॥
न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा ।अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचित् ॥४-३-३०॥
अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् ।उरःस्थम् कण्ठगम् वाक्यम् वर्तते मध्यमे स्वरम् ॥४-३-३१॥
संस्कार क्रम संपन्नाम् अद्भुताम् अविलम्बिताम् ।उच्चारयति कल्याणीम् वाचम् हृदय हर्षिणीम् ॥४-३-३२॥
अनया चित्रया वाचा त्रिस्थान व्यंजनस्थयाः ।कस्य न आराध्यते चित्तम् उद्यत् असे अरेः अपि ॥४-३-३३॥
एवम् विधो यस्य दूतो न भवेत् पार्थिवस्य तु ।सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयोऽनघ ॥४-३-३४॥
एवम् गुण गणैर् युक्ता यस्य स्युः कार्य साधकाः ।तस्य सिद्ध्यन्ति सर्वेऽर्था दूत वाक्य प्रचोदिताः ॥४-३-३५॥
एवम् उक्तः तु सोउमित्रिः सुग्रीव सचिवम् कपिम् ।अभ्यभाषत वाक्यज्ञो वाक्यज्ञम् पवनात्मजम् ॥४-३-३६॥
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।तम् एव च अवाम् मार्गावः सुग्रीवम् प्लवगेश्वरम् ॥४-३-३७॥
यथा ब्रवीषि हनुमान् सुग्रीव वचनाद् इह ।तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥४-३-३८॥
तत् तस्य वाक्यम् निपुणम् निशम्यप्रहृष्ट रूपः पवनात्मजः कपिः ।मनः समाधाय जय उपपत्तौसख्यम् तदा कर्तुम् इयेष ताभ्याम् ॥४-३-३९॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 2
- Next: Kiṣkindhā-Kāṇḍa Sarga 4 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷