🪷 किष्किन्धाकाण्ड · Sarga 4

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 4 · 35 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.4local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.4.1
ततः प्रहृष्टो हनुमान् कृत्यवान् इति तत् वचः ।श्रुत्वा मधुर भावम् च सुग्रीवम् मनसा गतः ॥४-४-१॥
Vālmīki 4.4.2
भाव्यो राज्यागमः तस्य सुग्रीवस्य महात्मनः ।यत् अयम् कृत्यवान् प्राप्तः कृत्यम् च एतत् उपागतम् ॥४-४-२॥
Vālmīki 4.4.3
ततः परम संहृष्टः हनुमान् प्लवगोत्तमः ।प्रति उवाच ततो वाक्यम् रामम् वाक्य विशारदः ॥४-४-३॥
Vālmīki 4.4.4
किम् अर्थम् त्वम् वनम् घोरम् पम्पा कानन मण्डितम् ।आगतः सानुजो दुर्गम् नाना व्याल मृग आयुतम् ॥४-४-४॥
Vālmīki 4.4.5
तस्य तद् वचनम् श्रुत्वा लक्ष्मणो राम चोदितः ।आचचक्षे महात्मानम् रामम् दशरथात्मजम् ॥४-४-५॥
Vālmīki 4.4.6
राजा दशरथो नाम द्युतिमान् धर्म वत्सलः ।चातुर् वर्ण्यम् स्व धर्मेण नित्यम् एव अभिपालयन् ॥४-४-६॥
Vālmīki 4.4.7
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन ।स तु सर्वेषु भूतेषु पितामह इव अपरः ॥४-४-७॥
Vālmīki 4.4.8
अग्निष्टोमादिभिः यज्ञैः इष्टवान् आप्त दक्षिणैः ।तस्य अयम् पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥४-४-८॥
Vālmīki 4.4.9
शरण्यः सर्व भूतानाम् पितुः निर्देश पारगः ।ज्येष्टो दशरथस्य अयम् पुत्राणाम् गुणवत्तरः ॥४-४-९॥
Vālmīki 4.4.10
राज लक्षण संयुक्तः संयुक्तो राज्य सम्पदा।राजात् भ्रष्टो मया वस्तुम् वने सार्धम् इह आगतः ॥४-४-१०॥
Vālmīki 4.4.11
भार्यया च महाभाग सीतया अनुगतो वशी ।दिन क्षये महातेजाः प्रभ एव दिवाकरः ॥४-४-११॥
Vālmīki 4.4.12
अहम् अस्य अवरः भ्राता गुणैः दास्यम् उपागतः ।कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥४-४-१२॥
Vālmīki 4.4.13
सुखार्हस्य महार्हस्य सर्वभूत हितात्मनः ।ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥४-४-१३॥
Vālmīki 4.4.14
रक्षस अपहृता भार्या रहिते काम रूपिणा ।तत् च न ज्ञायते रक्षः पत्नी येन अस्य वा हृता ॥४-४-१४॥
Vālmīki 4.4.15
दनुः नाम दितेः पुत्रः शापात् राक्षसताम् गतः ।आख्यातः तेन सुग्रीवः समर्थो वानराधिपः ॥४-४-१५॥
Vālmīki 4.4.16
स ज्ञास्यति महावीर्यः तव भार्या अपहारिणम् ।एवम् उक्त्वा दनुः स्वर्गम् भ्राजमानो दिवम् गतः ॥४-४-१६॥
Vālmīki 4.4.17
एतत् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः ।अहम् चैव च रामः च सुग्रीवम् शरणम् गतौ ॥४-४-१७॥
Vālmīki 4.4.18
एष दत्त्वा च वित्तानि प्राप्य च अनुत्तमम् यशः ।लोकनाथः पुरा भूत्वा सुग्रीवम् नाथम् इच्छति ॥४-४-१८॥
Vālmīki 4.4.19
सीता यस्य स्नुषा च आसीत् शरण्यो धर्मवत्सलः ।तस्य पुत्रः शरण्यस्य सुग्रीवम् शरणम् गतः ॥४-४-१९॥
Vālmīki 4.4.20
सर्व लोकस्य धर्मात्मा शरण्यः शरणम् पुरा ।गुरुर् मे राघवः सोऽयम् सुग्रीवम् शरणम् गतः ॥४-४-२०॥
Vālmīki 4.4.21
यस्य प्रसादे सततम् प्रसीदेयुः इमाः प्रजाः ।स रामः वानरेन्द्रस्य प्रसादम् अभिकाङ्क्षते ॥४-४-२१॥
Vālmīki 4.4.22
येन सर्व गुणोपेताः पृथिव्याम् सर्व पार्थिवाः ।मानिताः सततम् राज्ञा सदा दशरथेन वै ॥४-४-२२॥
Vālmīki 4.4.23
तस्य अयम् पूर्वजः पुत्रः त्रिषु लोकेषु विश्रुतः ।सुग्रीवम् वानरेन्द्रम् तु रामः शरणम् आगतः ॥४-४-२३॥
Vālmīki 4.4.24
शोक अभिभूते रामे तु शोक आर्ते शरणम् गते ।कर्तुम् अर्हति सुग्रीवः प्रसादम् सह यूथपैः ॥४-४-२४॥
Vālmīki 4.4.25
एवम् ब्रुवाणम् सौमित्रिम् करुणम् स अश्रु पातनम् ।हनुमान् प्रति उवाच इदम् वाक्यम् वाक्य विशारदः ॥४-४-२५॥
Vālmīki 4.4.26
ईदृशा बुद्धि संपन्ना जितक्रोधा जितेइन्द्रियाः ।द्रष्टव्या वानरेइन्द्रेण दिष्ट्या दर्शनम् आगताः ॥४-४-२६॥
Vālmīki 4.4.27
स हि राज्यात् च विभ्रष्टः कृत वैरः च वालिना ।हृत दारो वने त्रस्तः भ्रात्रा विनिकृतः भृशम् ॥४-४-२७॥
Vālmīki 4.4.28
करिष्यति स साहाय्यम् युवयोः भास्करात्मजः ।सुग्रीवः सह च अस्माभिः सीतायाः परिमार्गणे ॥४-४-२८॥
Vālmīki 4.4.29
इति एवम् उक्त्वा हनुमान् श्लक्ष्णम् मधुरया गिरा ।बभाषे साधु गच्छामः सुग्रीवम् इति राघवम् ॥४-४-२९॥
Vālmīki 4.4.30
एवम् ब्रुवन्तम् धर्मात्मा हनूमन्तम् स लक्ष्मणः ।प्रतिपूज्य यथा न्यायम् इदम् प्रोवाच राघवम् ॥४-४-३०॥
Vālmīki 4.4.31
कपिः कथयते हृष्टो यथा अयम् मारुतात्मजः ।कृत्यवान् सोऽपि संप्राप्तः कृत कृत्योऽसि राघव ॥४-४-३१॥
Vālmīki 4.4.32
प्रसन्न मुख वर्णः च व्यक्तम् हृष्टः च भाषते ।न अनृतम् वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥४-४-३२॥
Vālmīki 4.4.33
ततः स सुमहाप्राज्ञः हनुमान् मारुतात्मजः ।जगाम आदाय तौ वीरौ हरि राजाय राघवौ ॥४-४-३३॥
Vālmīki 4.4.34
भिक्षु रूपम् परित्यज्य वानरम् रूपम् आस्थितः ।पृष्टम् आरोप्य तौ वीरौ जगाम कपिकुङ्जरः ॥४-४-३४॥
Vālmīki 4.4.35
स तु विपुल यशाः कपि प्रवीरः पवनसुतः कृत कृत्यवत् प्रहृष्टः ।गिरि वरम् उरुविक्रमः प्रयातः स शुभमतिः सह राम लक्ष्मणाभ्याम् ॥४-४-३५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷