🪷 किष्किन्धाकाण्ड · Sarga 5

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 5 · 31 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.5local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.5.1
ऋश्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् ।आचचक्षे तदा वीरौ कपि राजाय राघवौ ॥४-५-१॥
Vālmīki 4.5.2
अयम् रामो महाप्राज्ञ संप्राप्तो दृढ विक्रमः ।लक्ष्मणेन सह भ्रात्रा रामोऽयम् सत्य विक्रमः ॥४-५-२॥
Vālmīki 4.5.3
इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः ।धर्मे निगदितः च एव पितुर् निर्देश कारकः ॥४-५-३॥
Vālmīki 4.5.4
राजसूय अश्वमेधैः च वह्निः येन अभितर्पितः ।दक्षिणाः च तथा उत्सृष्टा गावः शत सहस्रशः ॥४-५-४॥
Vālmīki 4.5.5
तपसा सत्य वाक्येन वसुधा येन पालिता ।स्त्री हेतोः तस्य पुत्रोऽयम् रामः अरणयम् समागतः ॥४-५-५॥
Vālmīki 4.5.6
तस्य अस्य वसतो अरण्ये नियतस्य महात्मनः ।रावणेन हृता भार्या स त्वाम् शरणम् आगतः ॥४-५-६॥
Vālmīki 4.5.7
भवता सख्य कामौ तौ भ्रातरौ राम लक्ष्मणौ ।प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ ॥४-५-७॥
Vālmīki 4.5.8
श्रुत्वा हनुमतो वाक्यम् सुग्रीवो वानर अधिपः ।दर्शनीयतमो भूत्वा प्रीत्या उवाच राघवम् ॥४-५-८॥
Vālmīki 4.5.9
भवान् धर्म विनीतः च सुतपाः सर्व वत्सलः ।आख्याता वायुपुत्रेण तत्त्वतो मे भवद् गुणाः ॥४-५-९॥
Vālmīki 4.5.10
तन् मम एव एष सत्कारो लाभः च एव उत्तमः प्रभो ।यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह ॥४-५-१०॥
Vālmīki 4.5.11
रोचते यदि मे सख्यम् बाहुः एष प्रसारितः ।गृह्यताम् पाणिना पाणिः मर्यादा बध्यताम् ध्रुवा ॥४-५-११॥
Vālmīki 4.5.12
एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।संप्रहृष्ट मना हस्तम् पीडयामास पाणिना ॥४-५-१२॥
Vālmīki 4.5.13
हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् ।ततो हनूमान् संत्यज्य भिक्षु रूपम् अरिन्दमः ॥४-५-१३॥
Vālmīki 4.5.14
काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् ॥४-५-१४॥
Vālmīki 4.5.15
तयोर् मध्ये तु सुप्रीतो निदधौ सुसमाहितः ।ततो अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् ॥४-५-१५॥
Vālmīki 4.5.16
सुग्रीवो राघवः च एव वयस्यत्वम् उपागतौ ।ततः सुप्रीत मनसौ तौ उभौ हरि राघवौ ॥४-५-१६॥
Vālmīki 4.5.17
अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः ।त्वम् वयस्योऽसि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ ॥४-५-१७॥
Vālmīki 4.5.18
सुग्रीवो राघवम् वाक्यम् इति उवाच प्रहृष्टवत् ।ततः सुपर्ण बहुलाम् भंक्त्वा शाखाम् सुपुष्पिताम् ॥४-५-१८॥
Vālmīki 4.5.19
सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः ।लक्ष्मनाय अथ संहृष्टो हनुमान् मारुतात्मजः ॥४-५-१९॥
Vālmīki 4.5.20
शखाम् चन्दन वृक्षस्य ददौ परम पुष्पिताम् ।ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा ॥४-५-२०॥
Vālmīki 4.5.21
प्रति उवाच तदा रामम् हर्ष व्याकुल लोचनः ।अहम् विनिकृतो राम चरमि इह भय आर्दितः ॥४-५-२१॥
Vālmīki 4.5.22
हृत भार्यो वने त्रस्तो दुर्गम् एतत् उपाश्रितः ।सोऽहम् त्रस्तो वने भीतो वसामि उद् भ्रान्त चेतनः ॥४-५-२२॥
Vālmīki 4.5.23
वालिना निकृतो भ्रात्रा कृत वैरः च राघव ।वालिनो मे महाभाग भय आर्तस्य अभयम् कुरु ॥४-५-२३॥
Vālmīki 4.5.24
कर्तुम् अर्हसि काकुत्स्थः भयम् मे न भवेद् यथा ।एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ॥४-५-२४॥
Vālmīki 4.5.25
प्रति अभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव ।उपकार फलम् मित्रम् विदितम् मे महाकपे ॥४-५-२५॥
Vālmīki 4.5.26
वालिनम् तम् वधिष्यामि तव भार्य अपहारिणम् ।अमोघोः सूर्य संकाशाः मम इमे निशिताः शराः ॥४-५-२६॥
Vālmīki 4.5.27
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।कन्क पत्र प्रतिच्छन्ना महेन्द्र अशनि संनिभाः ॥४-५-२७॥
Vālmīki 4.5.28
तीक्ष्णाग्रा ऋजुपर्वाणः स रोषा भुजगा इव ।तम् अद्य वालिनम् पश्य तीक्ष्णैः आशी विष उपमैः ॥४-५-२८॥
Vālmīki 4.5.29
शरैः विनिहितम् भूमौ प्रकीर्णम् इव पर्वतम् ।स तु तद् वचनम् श्रुत्वा राघवस्य आत्मनोहितम् ।सुग्रीवः परम प्रीतः परमम् वाक्यम् अब्रवीत् ॥४-५-२९॥
Vālmīki 4.5.30
तव प्रसादेन नृसिंह वीरप्रियाम् च राज्यम् च समाप्नुयाम् अहम् ।तथा कुरु त्वम् नर देव वैरिणम्यथा न हिंस्यत् स पुनर् मम अग्रजम् ॥४-५-३०॥
Vālmīki 4.5.31
सीत कपीन्द्र क्षणदा चराणाम्राजीव हेम ज्वलनोपमानानि ।सुग्रीव राम प्रणय पसङ्गेवामानि नेत्राणि समम् स्फुरन्ति ॥४-५-३१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷