🪷 किष्किन्धाकाण्ड · Sarga 6

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 6 · 27 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.6local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.6.1
पुनरेव अब्रवीत् प्रीतः राघवम् रघुनन्दनम् ।अयम् आख्याति ते राम सेवकः मन्त्रि सत्तमः ॥४-६-१॥
Vālmīki 4.6.2
हनुमान् यन् निमित्तम् त्वम् निर्जनम् वनम् आगतः ।लक्ष्मणेन सह भ्रात्रा वसतः च वने तव ॥४-६-२॥
Vālmīki 4.6.3
रक्षसा अपहृता भार्या मैथिली जनक आत्मजा ।त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥४-६-३॥
Vālmīki 4.6.4
अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम् ।भार्या वियोगजम् दुःखम् प्रापितः तेन रक्ष्सा ॥४-६-४॥
Vālmīki 4.6.5
भर्या वियोगजम् दुःखम् न चिरात् त्वम् विमोक्ष्यसे ।अहम् ताम् आनयिष्यामि नष्टाम् वेदश्रुतीम् इव ॥४-६-५॥
Vālmīki 4.6.6
रसातले वा वर्तन्तीम् वर्तन्तीम् वा नभः तले ।अहम् आनीय दास्यामि तव भार्याम् अरिन्दम ॥४-६-६॥
Vālmīki 4.6.7
इदम् तथ्यम् मम वचः त्वम् अवेहि च राघव ।न शक्या सा जरयितुम् अपि सः इन्द्रैः सुर असुरैः ॥४-६-७॥
Vālmīki 4.6.8
तव भार्या महाबाहो भक्ष्यम् विष कृतम् यथा ।त्यज शोकम् महाबाहो ताम् कान्ताम् आनयामि ते ॥४-६-८॥
Vālmīki 4.6.9
अनुमानात् तु जानामि मैथिली सा न संशयः ।ह्रियमाणा मया दृष्टा रक्षसा रौउद्र कर्मणा ॥४-६-९॥
Vālmīki 4.6.10
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।स्फुरन्ती रावणस्य अन्के पन्नगेन्द्र वधूः यथा ॥४-६-१०॥
Vālmīki 4.6.11
आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल तले स्थितम् ।उत्तरीयम् तया त्यक्तम् शुभानि आभरणानि च ॥४-६-११॥
Vālmīki 4.6.12
तानि अस्माभिः गृहीतानि निहितानि च राघव ।आनयिष्यामि अहम् तानि प्रत्यभिज्ञातुम् अर्हसि ॥४-६-१२॥
Vālmīki 4.6.13
तम् अब्रवीत् ततः रामः सुग्रीवम् प्रिय वादिनम् ।आनयस्व सखे शीघ्रम् किम् अर्थम् प्रविलम्बसे ॥४-६-१३॥
Vālmīki 4.6.14
एवम् उक्तः तु सुग्रीवः शैलस्य गहनाम् गुहाम् ।प्रविवेश ततः शीघ्रम् राघव प्रिय काम्यया ॥४-६-१४॥
Vālmīki 4.6.15
उत्तरीयम् गृहीत्वा तु स तानि आभरणानि च ।इदम् पश्य इति रामाय दर्शयामास वानरः ॥४-६-१५॥
Vālmīki 4.6.16
ततो गृहीत्वा वासः तु शुभानि आभरणानि च ।अभवत् बाष्प सम्रुद्धः नीहारेण इव चन्द्रमाः ॥४-६-१६॥
Vālmīki 4.6.17
सीता स्नेह प्रवृत्तेन स तु बाष्पेण दूषितः ।हा प्रिये इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ ॥४-६-१७॥
Vālmīki 4.6.18
हृदि कृत्वा स बहुशः तम् अलंकारम् उत्तमम् ।निशश्वास भृशम् सर्पः बिलस्थ इव रोषितः ॥४-६-१८॥
Vālmīki 4.6.19
अविच्छिन्न अश्रु वेगः तु सौमित्रिम् प्रेक्ष्य पार्श्वतः ।परिदेवयितुम् दीनम् रामः सम् उपचक्रमे ॥४-६-१९॥
Vālmīki 4.6.20
पश्य लक्ष्मण वैदेह्या संत्यक्तम् ह्रियमाणया ।उत्तरीयम् इदम् भूमौ शरीराद् भूषणानि च ॥४-६-२०॥
Vālmīki 4.6.21
शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया ।उत्सृष्टम् भूषणाम् इदम् तथा रूपम् हि दृश्यते ॥४-६-२१॥
Vālmīki 4.6.22
एवम् उक्तसः तु रामेण लक्ष्मणो वाक्यम् इदम् अब्रवीत् ।न अहम् जानामि केयूरे न अहम् जानामि कुन्डले ॥४-६-२२॥
Vālmīki 4.6.23
नूपुरे तु अभिजनामि नित्यम् पाद अभिवंदनात् ।ततः तु राघवो वाक्यम् सुग्रीवम् इदम् अब्रवीत् ॥४-६-२३॥
Vālmīki 4.6.24
ब्रूहि सुग्रीव कम् देशम् ह्रियन्ती लक्षिता त्वया ।रक्षसा रौद्ररूपेण मम प्राणप्रिया प्रिया ॥४-६-२४॥
Vālmīki 4.6.25
क्व वा वसति तत् रक्षJः महत् व्यसनदम् मम ।यन् निमित्तम् अहम् सर्वान् नाशयिष्यामि राक्षसान् ॥४-६-२५॥
Vālmīki 4.6.26
हरता मैथिलीम् येन माम् च रोषयता ध्रुवम् ।आत्मनो जीवित अन्ताय मृत्यु द्वारम् अपावृतम् ॥४-६-२६॥
Vālmīki 4.6.27
मम दयित तमा हृता वनात् रजनिचरेण विमथ्य येन सा ।कथय मम रिपुम् तम् अद्य वै प्लवगपते यम सन्निधिम् नयामि ॥४-६-२७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷