🪷 किष्किन्धाकाण्ड · Sarga 7

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 7 · 25 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.7local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.7.1
एवम् उक्तः तु सुग्रीवः रामेण आर्तेन वानरः ।अब्रवीत् प्राञ्जलिः वाक्यम् सबाष्पम् बाष्प गद्गदः ॥४-७-१॥
Vālmīki 4.7.2
न जाने निलयम् तस्य सर्वथा पाप रक्षसः ।सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम् ॥४-७-२॥
Vālmīki 4.7.3
सत्यम् तु प्रतिजानामि त्यज शोकम् अरिन्दम ।करिष्यामि तथा यत्नम् यथा प्राप्स्यसि मैथिलीम् ॥४-७-३॥
Vālmīki 4.7.4
रावणम् सगणम् हत्वा परितोष्य आत्म पौरुषम् ।तथा अस्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥४-७-४॥
Vālmīki 4.7.5
अलम् वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतम् स्मर ।त्वत् विधानाम् न सदृशम् ईदृशम् बुद्धि लाघवम् ॥४-७-५॥
Vālmīki 4.7.6
मया अपि व्यसनम् प्राप्तम् भार्या विरहजम् महत् ।न अहम् एवम् हि शोचामि धैर्यम् न च परित्यजे ॥४-७-६॥
Vālmīki 4.7.7
न अहम् ताम् अनुशोचामि प्राकृतो वानरो अपि सन् ।महात्मा च विनीतः च किम् पुनर् धृतिमान् महान् ॥४-७-७॥
Vālmīki 4.7.8
बाष्पम् आपतितम् धैर्यात् निग्रहीतुम् त्वम् अर्हसि ।मर्यादाम् सत्त्व युक्तानाम् धृतिम् न उत्स्रष्टुम् अर्हसि ॥४-७-८॥
Vālmīki 4.7.9
व्यसने वा अर्थ कृच्छ्रे वा भये वा जीवितान्तगे ।विमृशन् वै स्वया बुद्ध्या धृतिमान् न अवसीदति ॥४-७-९॥
Vālmīki 4.7.10
बालिशस् तु नरो नित्यम् वैक्लब्यम् योऽनुवर्तते ।स मज्जति अवशः शोके भार आक्रान्ता इव नौः जले ॥४-७-१०॥
Vālmīki 4.7.11
एषो अन्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये ।पौरुषम् श्रय शोकस्य न अन्तरम् दातुम् अर्हसि ॥४-७-११॥
Vālmīki 4.7.12
ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् ।तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि ॥४-७-१२॥
Vālmīki 4.7.13
शोकेन अभिप्रपन्नस्य जीविते च अपि संशयः ।स शोकम् त्यज राजेन्द्र धैर्यम् आश्रय केवलम् ॥४-७-१३॥
Vālmīki 4.7.14
हितम् वयस्य भावेन ब्रूमि न उपदिशामि ते ।वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि ॥४-७-१४॥
Vālmīki 4.7.15
मधुरम् सान्त्वितः तेन सुग्रीवेण स राघवः ।मुखम् अश्रु परि क्लिन्नम् वस्त्र अन्तेन प्रमार्जयत् ॥४-७-१५॥
Vālmīki 4.7.16
प्रकृतिः स्थः तु काकुत्स्थः सुग्रीव वचनात् प्रभुः ।संपरिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत् ॥४-७-१६॥
Vālmīki 4.7.17
कर्तव्यम् यत् वयस्येन स्निग्धेन च हितेन च ।अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया ॥४-७-१७॥
Vālmīki 4.7.18
एष च प्रकृतिः स्थः अहम् अनुनीतः त्वया सखे ।दुर्लभो हि ईदृशो बन्धुः अस्मिन् काले विशेषतः ॥४-७-१८॥
Vālmīki 4.7.19
किम् तु यत्नः त्वया कार्यो मैथिल्याः परिमार्गणे ।राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥४-७-१९॥
Vālmīki 4.7.20
मया च यद् अनुष्ठेयम् विस्रब्धेन तत् उच्यताम् ।वर्षासु इव च सुक्षेत्रे सर्वम् संपद्यते तव ॥४-७-२०॥
Vālmīki 4.7.21
मया च यदिदम् वाक्यम् अभिमानात् समीरितम् ।तत् त्वया हरिशार्दूल तत् त्वम् इति उपधार्यताम् ॥४-७-२१॥
Vālmīki 4.7.22
अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ।एतत् ते प्रतिजानामि सत्येन एव शपामि अहम् ॥४-७-२२॥
Vālmīki 4.7.23
ततः प्रहृष्टः सुग्रीवः वानरैः सचिवैः सह ।राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः ॥४-७-२३॥
Vālmīki 4.7.24
एवम् एकान्त संपृक्तौ ततः तौ नर वानरौ ।उभौ अन्योन्य सदृशम् सुख दुःखम् अभाष्ताम् ॥४-७-२४॥
Vālmīki 4.7.25
महानुभावस्य वचो निशम्यहरिर् नृपाणाम् अधिपस्य तस्य ।कृतम् स मेने हरिवीर मुख्यःतदा च कार्यम् हृदयेन विद्वान् ॥४-७-२५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷