🪷 किष्किन्धाकाण्ड · Sarga 8

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 8 · 46 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.8local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.8.1
परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः ।लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत् ॥४-८-१॥
Vālmīki 4.8.2
सर्वथा अहम् अनुग्राह्यो देवतानाम् न संशयः ।उपपन्नः गुण उपेतः सखा यस्य भवान् मम ॥४-८-२॥
Vālmīki 4.8.3
शक्यम् खलु भवेत् राम सहायेन त्वया अनघ ।सुर राज्यम् अपि प्राप्तुम् स्व राज्यम् किमुत प्रभो ॥४-८-३॥
Vālmīki 4.8.4
सोऽहम् सभाज्यो बन्धूनाम् सुहृदाम् चैव राघव ।यस्य अग्नि साक्षिकम् मित्रम् लब्धम् राघव वंशजम् ॥४-८-४॥
Vālmīki 4.8.5
अहम् अपि अनुरूपः ते वयस्यो ज्ञास्यसे शनैः ।न तु वक्तुम् समर्थोऽहम् त्वयि आत्मगतान् गुणान् ॥४-८-५॥
Vālmīki 4.8.6
महात्मनाम् तु भूयिष्ठम् त्वत् विधानाम् कृत आत्मनाम् ।निश्चला भवति प्रीतिः धैर्यम् आत्मवताम् वर ॥४-८-६॥
Vālmīki 4.8.7
रजतम् वा सुवर्णम् वा शुभानि आभरणानि च ।अविभक्तानि साधूनाम् अवगच्छन्ति साधवः ॥४-८-७॥
Vālmīki 4.8.8
आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितोऽपि वा ।निर्दोषः च सदोषः च वयस्यः परमा गतिः ॥४-८-८॥
Vālmīki 4.8.9
धन त्यागः सुख त्यागो देश त्यागोऽपि वा अनघः ।वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथा विधम् ॥४-८-९॥
Vālmīki 4.8.10
तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय दर्शनम् ।लक्ष्मणस्य अग्रतः लक्ष्म्या वासवस्य इव धीमतः ॥४-८-१०॥
Vālmīki 4.8.11
ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महाबलम् ।सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत् ॥४-८-११॥
Vālmīki 4.8.12
स ददर्श ततः सालम् अविदूरे हरीश्वरः ।सुपुष्पम् ईषत् पत्र आढ्यम् भ्रमरैः उपशोभितम् ॥४-८-१२॥
Vālmīki 4.8.13
तस्य एकाम् पर्ण बहुलाम् शाखाम् भंक्त्वा सुशोभिताम् ।रामस्य आस्तीर्य सुग्रीवो निषसाद स राघवः ॥४-८-१३॥
Vālmīki 4.8.14
तौ आसीनौ ततः दृष्ट्वा हनूमान् अपि लक्ष्मणम् ।साल शाखाम् समुत्पाट्य विनीतम् उपवेशयत् ॥४-८-१४॥
Vālmīki 4.8.15
सुख उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा ।साल पुष्पाव संकीर्णे तस्मिन् गिरिवर उत्तमे ॥४-८-१५॥
Vālmīki 4.8.16
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा ।उवाच प्रणयाद् रामम् हर्ष व्याकुलित अक्षरम् ॥४-८-१६॥
Vālmīki 4.8.17
अहम् विनिकृतो भ्रात्रा चरामि एष भयार्दितः ।ऋष्यमूकम् गिरि वरम् हृत भार्यः सुदुःखितः ॥४-८-१७॥
Vālmīki 4.8.18
सोऽहम् त्रस्तः भये मग्नः वने संब्रान्त चेतनः ।वालिना निकृतः भ्रात्रा कृत वैरः च राघव ॥४-८-१८॥
Vālmīki 4.8.19
वालिनः मे भय आर्तस्य सर्वलोक अभयंकर ।मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि ॥४-८-१९॥
Vālmīki 4.8.20
एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ।प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव ॥४-८-२०॥
Vālmīki 4.8.21
उपकार फलम् मित्रम् अपकारो अरि लक्षणम् ।अद्य एव तम् वधिष्यामि तव भार्या अपहारिणम् ॥४-८-२१॥
Vālmīki 4.8.22
इमे हि मे महाभाग पत्रिणः तिग्म तेजसः ।कार्तिकेय वन उद्भूताः शरा हेम विभूषिताः ॥४-८-२२॥
Vālmīki 4.8.23
कन्क पत्र परिच्छन्ना महेन्द्र अशनि सन्निभाः ।सुपर्वाणः सुतीक्ष्ण अग्रा सरोषा भुजगा इव ॥४-८-२३॥
Vālmīki 4.8.24
वालि सज्ञम् अमित्रम् ते भ्रातरम् कृत किल्बिषम् ।शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम् ॥४-८-२४॥
Vālmīki 4.8.25
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ।प्रहर्षम् अतुलम् लेभे साधु साध्विति च अब्रवीत् ॥४-८-२५॥
Vālmīki 4.8.26
राम शोक अभिभूतो अहम् शोक आर्तानाम् भवान् गतिः ।वयस्य इति कृत्वा हि त्वयि अहम् परिदेवये ॥४-८-२६॥
Vālmīki 4.8.27
त्वम् हि पाणि प्रदानेन वयस्यो मे अग्नि साक्षिकम् ।कृतः प्राणैः बहुमतः सत्येन च शपामि अहम् ॥४-८-२७॥
Vālmīki 4.8.28
वयस्य इति कृत्वा च विस्रब्धः प्रवदामि अहम् ।दुःखम् अन्तर्गतम् तन् मे मनो हरति नित्यशः ॥४-८-२८॥
Vālmīki 4.8.29
एतावत् उक्त्वा वचनम् बाष्प दूषित लोचनः ।बाष्प दूषितया वाचा न उच्चैः श्क्नोति भाषितुम् ॥४-८-२९॥
Vālmīki 4.8.30
बाष्प वेगम् तु सहसा नदी वेगम् इव आगतम् ।धारयामास धैर्येण सुग्रीवः राम संनिधौ ॥४-८-३०॥
Vālmīki 4.8.31
स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे ।विनिःश्वस्य च तेजस्वी राघवम् पुनरूचिवान् ॥४-८-३१॥
Vālmīki 4.8.32
पुरा अहम् वलिना राम राज्यात् स्वात् अवरोपितः ।परुषाणि च संश्राव्य निर्धूतो अस्मि बलीयसा ॥४-८-३२॥
Vālmīki 4.8.33
हृता भार्या च मे तेन प्राणेभ्यो अपि गरीयसी ।सुहृदः च मदीया ये संयता बन्धनेषु ते ॥४-८-३३॥
Vālmīki 4.8.34
यत्नवान् च स दुष्टात्मा मद् विनाशाय राघव ।बहुशः तत् प्रयुक्ताः च वानरा निहता मया ॥४-८-३४॥
Vālmīki 4.8.35
शंकया एतया अहम् च दृष्ट्वा त्वाम् अपि राघव ।न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति ॥४-८-३५॥
Vālmīki 4.8.36
केवलम् हि सहाया मे हनुमत् प्रमुखास्त्विमे ।अतः अहम् धारयामि अद्य प्राणान् कृच्छ्र गतः अपि सन् ॥४-८-३६॥
Vālmīki 4.8.37
एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः ।सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते ॥४-८-३७॥
Vālmīki 4.8.38
संक्षेपः ते एष मे राम किम् उक्त्वा विस्तरम् हि ते ।स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत पौरुषः ॥४-८-३८॥
Vālmīki 4.8.39
तद् विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् ।सुखम् मे जीवितम् चैव तद् विनाश निबन्धनम् ॥४-८-३९॥
Vālmīki 4.8.40
एष मे राम शोकान्तः शोक आर्तेन निवेदितः ।दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः ॥४-८-४०॥
Vālmīki 4.8.41
श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् ।किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः ॥४-८-४१॥
Vālmīki 4.8.42
सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर ।आनन्तर्यद् विधास्यामि संप्रधार्य बलाबलम् ॥४-८-४२॥
Vālmīki 4.8.43
बलवान् हि मम अमर्षः श्रुत्वा त्वाम् अवमानितम् ।वर्धते हृदय उत्कम्पी प्रावृड् वेग इव अंभसः ॥४-८-४३॥
Vālmīki 4.8.44
हृष्टः कथय विस्रब्धो यावत् आरोप्यते धनुः ।सृष्टः च हि मया बाणो निरस्तः च रिपुः तव ॥४-८-४४॥
Vālmīki 4.8.45
एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना ।प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः॥४-८-४५॥
Vālmīki 4.8.46
ततः प्रहृ^इष्ट वदनः सुग्रीवः लक्ष्मणाग्रजे ।वैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे ॥४-८-४६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷