🪷 किष्किन्धाकाण्ड · Sarga 9

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 9 · 27 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 4.9.1
वाली नाम मम भ्राता ज्येष्ठः शत्रु निषूदनः ।पितुः बहुमतः नित्यम् मम च अपि तथा पुरा ॥४-९-१॥
Vālmīki 4.9.2
पितरि उपरते तस्मिन् ज्येष्ठो अयम् इति मंत्रिभिः ।कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः ॥४-९-२॥
Vālmīki 4.9.3
राज्यम् प्रशासतः तस्य पितृ पैतामहम् महत् ।अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥४-९-३॥
Vālmīki 4.9.4
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा ॥४-९-४॥
Vālmīki 4.9.5
स तु सुप्ते जने रात्रौ किष्किन्धा द्वारम् आगतः ।नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे ॥४-९-५॥
Vālmīki 4.9.6
प्रसुप्तः तु मम भ्राता नर्दितो भैरव स्वनम् ।श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥४-९-६॥
Vālmīki 4.9.7
स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुरोत्तमम् ।वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना ॥४-९-७॥
Vālmīki 4.9.8
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः ।ततः अहम् अपि सौहार्दान् निःसृतः वालिना सह ॥४-९-८॥
Vālmīki 4.9.9
स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् ।असुरो जात संत्रासः प्रदुद्राव तदा भृशम् ॥४-९-९॥
Vālmīki 4.9.10
तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ ।प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा ॥४-९-१०॥
Vālmīki 4.9.11
स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् ।प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ ॥४-९-११॥
Vālmīki 4.9.12
तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष वशम् गतः ।माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः ॥४-९-१२॥
Vālmīki 4.9.13
इह तिष्ठ अद्य सुग्रीव बिल द्वारि समाहितः ।यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् ॥४-९-१३॥
Vālmīki 4.9.14
मया तु एतत् वचः श्रुत्वा याचितः स परंतपः ।शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः ॥४-९-१४॥
Vālmīki 4.9.15
तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः ।स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत ॥४-९-१५॥
Vālmīki 4.9.16
अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत संभ्रमः ।भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः ॥४-९-१६॥
Vālmīki 4.9.17
अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् ।सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः ॥४-९-१७॥
Vālmīki 4.9.18
नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः ।न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः ॥४-९-१८॥
Vālmīki 4.9.19
अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् ।पिधाय च बिल द्वारम् शिलया गिरि मात्रया ॥४-९-१९॥
Vālmīki 4.9.20
शोकार्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे ।गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ॥४-९-२०॥
Vālmīki 4.9.21
ततः अहम् तैः समागम्य समेतैः अभिषेचितः ।राज्यम् प्रशासतः तस्य न्यायतो मम राघव ॥४-९-२१॥
Vālmīki 4.9.22
आजगाम रिपुम् हत्वा दानवम् स तु वानरः ।अभिषिक्तम् तु माम् दृष्ट्वा कोपात् संरक्त लोचनः ॥४-९-२२॥
Vālmīki 4.9.23
मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् ।निग्रहे च समर्थस्य तम् पापम् प्रति राघव ॥४-९-२३॥
Vālmīki 4.9.24
न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता ।हत्वा शत्रुम् सः मे भ्राता प्रविवेश पुरम् तदा ॥४-९-२४॥
Vālmīki 4.9.25
मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् ।उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना ॥४-९-२५॥
Vālmīki 4.9.26
नत्वा पादौ अहम् तस्य मुकुटेन अस्पृशम् प्रभो ।अपि वाली मम क्रोधात् न प्रसादम् चकार सः ॥४-९-२६॥
Vālmīki 4.9.27
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे नवमः सर्गः । ॥४-९-२७॥

Navigation

Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷