🪷 बालकाण्ड · Sarga 72
Bāla-Kāṇḍa · The Book of Childhood · Sarga 72 · 25 ślokas
🪷 Devanāgarī Ślokas
तम् उक्तवंतम् वैदेहम् विश्वामित्रो महामुनिः ।उवाच वचनम् वीरम् वसिष्ठ सहितो नृपम् ॥१-७२-१॥
अचिंत्यानि अप्रमेयाणि कुलानि नरपुंगव ।इक्ष्वाकूणाम् विदेहानाम् न एषाम् तुल्यो अस्ति कश्चन ॥१-७२-२॥
सदृशो धर्म संबन्धः सदृशो रूप संपदा ।राम लक्ष्मणयो राजन् सीता च ऊर्मिलया सह ॥१-७२-३॥
वक्तव्यम् च नर श्रेष्ठ श्रूयताम् वचनम् मम ।भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥१-७२-४॥
अस्य धर्मात्मनो राजन् रूपेण अप्रतिमम् भुवि ।सुता द्वयम् नरश्रेष्ठ पत्नि अर्थम् वरयामहे ॥१-७२-५॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।वरयेम सुते राजन् तयोः अर्थे महात्मनोः ॥१-७२-६॥
पुत्रा दशरथस्य इमे रूप यौवन शालिनः ।लोक पाल समाः सर्वे देव तुल्य पराक्रमाः ॥१-७२-७॥
उभयोः अपि राजेन्द्र संबन्धेन अनुबध्यताम् ।इक्ष्वाकु कुलम् अव्यग्रम् भवतः पुण्य कर्मणः ॥१-७२-८॥
विश्वामित्र वचः श्रुत्वा वसिष्ठस्य मते तदा ।जनकः प्रांजलिः वाक्यम् उवाच मुनिपुंगवौ ॥१-७२-९॥
कुलम् धन्यम् इदम् मन्ये येषाम् तौ मुनिपुंगवौ ।सदृशम् कुल संबन्धम् यत् आज्ञापयथः स्वयम् ॥१-७२-१०॥
एवम् भवतु भद्रम् वः कुशध्वज सुते इमे ।पत्न्यौ भजेताम् सहितौ शत्रुघ्न भरतौ उभौ ॥१-७२-११॥
एक अह्ना राज पुत्रीणाम् चतसॄणाम् महामुने ।पाणीन् गृह्णन्तु चत्वारो राज पुत्रा महाबलाः ॥१-७२-१२॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्याम् मनीषिणः ।वैवाहिकम् प्रशंसन्ति भगो यत्र प्रजापतिः ॥१-७२-१३॥
एवम् उक्त्वा वचः सौम्यम् प्रत्युत्थाय कृतांजलिः ।उभौ मुनि वरौ राजा जनको वाक्यम् अब्रवीत् ॥१-७२-१४॥
परो धर्मः कृतो मह्यम् शिष्यो अस्मि भवतोः सदा ।इमानि आसन मुख्यानि आस्यताम् मुनिपुंगवौ ॥१-७२-१५॥
यथा दशरथस्य इयम् तथा अयोध्या पुरी मम ।प्रभुत्वे न अस्ति सन्देहो यथा अर्हम् कर्तुम् अर्हथः ॥१-७२-१६॥
तथा ब्रुवति वैदेहे जनके रघु नंदनः ।राजा दशरथो हृष्टः प्रत्युवाच मही पतिम् ॥१-७२-१७॥
युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ ।ऋषयो राज संघाः च भवद्भ्याम् अभिपूजिताः ॥१-७२-१८॥
स्वस्ति प्राप्नुहि भद्रम् ते गमिष्यामः स्वम् आलयम् ।श्राद्ध कर्माणि विधिवत् विधास्य इति च अब्रवीत् ॥१-७२-१९॥
तम् आपृष्ट्वा नर पतिम् राजा दशरथः तदा ।मुनीन्द्रौ तौ पुरस्कृत्य जगाम आशु महायशाः ॥१-७२-२०॥
स गत्वा निलयम् राजा श्राद्धम् कृत्वा विधानतः ।प्रभाते काल्यम् उत्थाय चक्रे गो दानम् उत्तमम् ॥१-७२-२१॥
गवाम् शत सहस्रम् च ब्राह्मणेभ्यो नराधिपः ।एक एकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः ॥१-७२-२२॥
सुवर्ण शृंगयः संपन्नाः स वत्साः काम्स्य दोहनाः ।गवाम् शत सहस्राणि चत्वारि पुरुष ऋषभः ॥१-७२-२३॥
वित्तम् अन्यत् च सु बहु द्विजेभ्यो रघु नंदनः ।ददौ गो दानम् उद्दिश्य पुत्राणाम् पुत्र वत्सलः ॥१-७२-२४॥
स सुतैः कृत गो दानैः वृतः सः नृपतिः तदा ।लोक पालैः इव आभाति वृतः सौम्यः प्रजापतिः ॥१-७२-२५॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 71
- Next: Bāla-Kāṇḍa Sarga 73 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷