🪷 बालकाण्ड · Sarga 73

Bāla-Kāṇḍa · The Book of Childhood · Sarga 73 · 40 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.73.1
यस्मिन् तु दिवसे राजा चक्रे गो दानम् उत्तमम् ।तस्मिन् तु दिवसे शूरो युधाजित् समुपेयिवान् ॥१-७३-१॥
Vālmīki 1.73.2
पुत्रः केकय राजस्य साक्षात् भरत मातुलः ।दृष्ट्वा पृष्ट्वा च कुशलम् राजानम् इदम् अब्रवीत् ॥१-७३-२॥
Vālmīki 1.73.3
केकय अधिपती राजा स्नेहात् कुशलम् अब्रवीत् ।येषाम् कुशलकामो असि तेषाम् संप्रति अनामयम् ॥१-७३-३॥
Vālmīki 1.73.4
स्वस्रीयम् मम राजेन्द्र द्रष्टु कामो महीपतिः ।तत् अर्थम् उपयातो अहम् अयोध्याम् रघुनंदन ॥१-७३-४॥
Vālmīki 1.73.5
श्रुत्वा तु अहम् अयोध्यायाम् विवाह अर्थम् तव आत्मजान् ।मिथिलाम् उपयातान् तु त्वया सह महीपते ॥१-७३-५॥
Vālmīki 1.73.6
त्वरया अभुपयातो अहम् द्रष्टु कामः स्वसुः सुतम् ।अथ राजा दशरथः प्रिय अतिथिम् उपस्थितम् ॥१-७३-६॥
Vālmīki 1.73.7
दृष्ट्वा परम सत्कारैः पूजार्हम् समपूजयत् ।ततः ताम् उषितो रात्रिम् सह पुत्रैः महात्मभिः ॥१-७३-७॥
Vālmīki 1.73.8
प्रभाते पुनः उत्थाय कृत्वा कर्माणि तत्त्ववित् ।ऋषीन् तदा पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-७३-८॥
Vālmīki 1.73.9
युक्ते मुहूर्ते विजये सर्व आभरण भूषितैः ।भ्रातृभिः सहितो रामः कृत कौतुक मंगलः ॥१-७३-९॥
Vālmīki 1.73.10
वसिष्ठम् पुरतः कृत्वा महर्षीन् अपरान् अपि ।वशिष्टःओ भगवान् एत्य वैदेहम् इदम् अब्रवीत् ॥१-७३-१०॥
Vālmīki 1.73.11
राजा दशरथो राजन् कृत कौतुक मन्गलैः ।पुत्रैः नर वर श्रेष्ठ दातारम् अभिकांक्षते ॥१-७३-११॥
Vālmīki 1.73.12
दातृ प्रतिग्रहीतृभ्याम् सर्व अर्थाः संभवन्ति हि ।स्वधर्मम् प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् ॥१-७३-१२॥
Vālmīki 1.73.13
इति उक्तः परम उदारो वसिष्ठेन महात्मना ।प्रत्युवाच महातेजा वाक्यम् परम धर्मवित् ॥१-७३-१३॥
Vālmīki 1.73.14
कः स्थितः प्रतिहारो मे कस्य आज्ञा संप्रतीक्ष्यते ।स्व गृहे को विचारो अस्ति यथा राज्यम् इदम् तव ॥१-७३-१४॥
Vālmīki 1.73.15
कृत कौतुक सर्वस्वा वेदि मूलम् उपागताः ।मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेः इव अर्चिषः ॥१-७३-१५॥
Vālmīki 1.73.16
सद्यो अहम् त्वत् प्रतीक्षो अस्मि वेद्याम् अस्याम् प्रतिषितः ।अविघ्नम् कुरुताम् राजा किम् अर्थम् हि विलम्ब्यते ॥१-७३-१६॥
Vālmīki 1.73.17
तत् वाक्यम् जनकेन उक्तम् श्रुत्वा दशरथः तदा ।प्रवेशयामास सुतान् सर्वान् ऋषि गणान् अपि ॥१-७३-१७॥
Vālmīki 1.73.18
ततो राजा विदेहानाम् वशिष्ठम् इदम् अब्रवीत् ।कारयस्व ऋषे सर्वान् ऋषिभिः सह धार्मिक ॥१-७३-१८॥
Vālmīki 1.73.19
रामस्य लोक रामस्य क्रियाम् वैवाहिकीम् प्रभो ।तथा इति उक्त्वा तु जनकम् वशिष्टःओ भगवान् ऋषिः ॥१-७३-१९॥
Vālmīki 1.73.20
विश्वामित्रम् पुरस्कृत्य शतानंदम् च धार्मिकम् ।प्रपा मध्ये तु विधिवत् वेदीम् कृत्वा महातपाः ॥१-७३-२०॥
Vālmīki 1.73.21
अलम् चकार ताम् वेदीम् गन्ध पुष्पैः समंततः ।सुवर्ण पालिकाभिः च चित्र कुम्भैः च स अंकुरैः ॥१-७३-२१॥
Vālmīki 1.73.22
अंकुर आढ्यैः शरावैः च धूप पात्रैः स धूपकैः ।शंख पात्रैः श्रुवैः स्रुग्भिः पात्रैः अर्घ्यादि पूजितैः ॥१-७३-२२॥
Vālmīki 1.73.23
लाज पूर्णैः च पात्रीभिः रक्षितैः अपि संस्कृतैः ।दर्भैः समैः समास्तीर्य विधिवत् मंत्र पुरस्कृतम् ॥१-७३-२३॥
Vālmīki 1.73.24
अग्निम् आधाय तम् वेद्याम् विधि मंत्र पूर्वकम् ।जुहाव अग्नौ महातेजा वशिष्ठो मुनिपुंगव ॥१-७३-२४॥
Vālmīki 1.73.25
ततः सीताम् समानीय सर्व आभरण भुषिताम् ।समक्षम् अग्नेः संस्थाप्य राघव अभिमुखे तदा ॥१-७३-२५॥
Vālmīki 1.73.26
अब्रवीत् जनको राजा कौसल्य आनंद वर्धनम् ।इयम् सीता मम सुता सह धर्म चरी तव ॥१-७३-२६॥
Vālmīki 1.73.27
प्रतीच्छ च एनाम् भद्रम् ते पाणिम् गृह्णीष्व पाणिना ।पतिव्रता महभागा छाय इव अनुगता सदा ॥१-७३-२७॥
Vālmīki 1.73.28
इति उक्त्वा प्राक्षिपत् राजा मंत्र पूतम् जलम् तदा ।साधु साधु इति देवानाम् ऋषीणाम् वदताम् तदा ॥१-७३-२८॥
Vālmīki 1.73.29
देव दुंदुभि निर्घोषः पुष्प वर्षम् महान् अभूत् ।एवम् दत्त्वा सुताम् सीताम् मंत्र उदक पुरस्कृताम् ॥१-७३-२९॥
Vālmīki 1.73.30
अब्रवीत् जनको राजा हर्षेण अभिपरिप्लुत ।लक्ष्मण आगच्छ भद्रम् ते ऊर्मिलाम् उद्यताम् मया ॥१-७३-३०॥
Vālmīki 1.73.31
प्रतीच्छ पाणिम् गृह्णीष्व मा भूत् कालस्य पर्ययः ।तम् एवम् उक्त्वा जनको भरतम् च अभ्यभाषत ॥१-७३-३१॥
Vālmīki 1.73.32
गृहाण पाणिम् माण्डव्याः पाणिना रघुनंदन ।शत्रुघ्नम् च अपि धर्माअत्मा अब्रवीत् मिथिलेश्वरः ॥१-७३-३२॥
Vālmīki 1.73.33
श्रुतकीर्तेः महाबाहो पाणिम् गृह्णीष्व पाणिना ।सर्वे भवन्तः सौम्याः च सर्वे सुचरित व्रताः ॥१-७३-३३॥
Vālmīki 1.73.34
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ।जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन् ॥१-७३-३४॥
Vālmīki 1.73.35
चत्वारः ते चतसॄणाम् वसिष्ठस्य मते स्थिताः ।अग्निम् प्रदक्षिणम् कृत्वा वेदिम् राजानम् एव च ॥१-७३-३५॥
Vālmīki 1.73.36
ऋषीन् चैव महात्मानः सह भार्या रघु उद्वहाः ।यथा उक्तेन तथा चक्रुः विवाहम् विधि पूर्वकम् ॥१-७३-३६॥
Vālmīki 1.73.37
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः।यद्वा -पुष्प वृष्टिः महति आसीत् अंतरिक्षात् सु भास्वरा ।दिव्य दुन्दुभि निर्घोषैः गीत वादित्र निःस्वनैः ॥१-७३-३७॥
Vālmīki 1.73.38
ननृतुः च अप्सरः संघा गन्धर्वाः च जगुः कलम् ।विवाहे रघु मुख्यानाम् तद् अद्भुतम् अदृश्यत ॥१-७३-३८॥
Vālmīki 1.73.39
ईदृशे वर्तमाने तु तूर्य उद्घुष्ट निनादिते ।त्रिः अग्निम् ते परिक्रम्य ऊहुः भार्या महौजसः ॥१-७३-३९॥
Vālmīki 1.73.40
अथ उपकार्याम् जग्मुः ते स दारा रघुनंदनाः ।राजा अपि अनुययौ पश्यन् स ऋषि संघः स बान्धवः ॥१-७३-४०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷