🪷 बालकाण्ड · Sarga 74

Bāla-Kāṇḍa · The Book of Childhood · Sarga 74 · 24 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.74.1
अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः ।आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् ॥१-७४-१॥
Vālmīki 1.74.2
विश्वामित्रो गते राजा वैदेहम् मिथिला अधिपम् ।आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् ॥१-७४-२॥
Vālmīki 1.74.3
अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥
Vālmīki 1.74.4
कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च ।हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् ॥१-७४-४॥
Vālmīki 1.74.5
ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् ।हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च ॥१-७४-५॥
Vālmīki 1.74.6
ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् ।दत्त्वा बहु विधम् राजा समनुज्ञाप्य पार्थिवम् ॥१-७४-६॥
Vālmīki 1.74.7
प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः ।राजा अपि अयोध्या अधिपतिः सह पुत्रैः महात्मभिः ॥१-७४-७॥
Vālmīki 1.74.8
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः ।गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम् ॥१-७४-८॥
Vālmīki 1.74.9
घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः ।भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥
Vālmīki 1.74.10
तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत ।असौम्याः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः ॥१-७४-१०॥
Vālmīki 1.74.11
किम् इदम् हृदय उत्कम्पि मनो मम विषीदति ।राज्ञो दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः ॥१-७४-११॥
Vālmīki 1.74.12
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् ।उपस्थितम् भयम् घोरम् दिव्यम् पक्षि मुखात् च्युतम् ॥१-७४-१२॥
Vālmīki 1.74.13
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् ।तेषाम् संवदताम् तत्र वायुः प्रादुर् बभूव ह ॥१-७४-१३॥
Vālmīki 1.74.14
कम्पयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् ।तमसा संवृतः सूर्यः सर्वे न वेदिषुर् दिशः ॥१-७४-१४॥
Vālmīki 1.74.15
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् ।वसिष्ठ ऋषयः च अन्ये राजा च ससुतः तदा ॥१-७४-१५॥
Vālmīki 1.74.16
स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् ।तस्मिन् तमसि घोरे तु भस्म छन्न इव सा चमूः ॥१-७४-१६॥
Vālmīki 1.74.17
ददर्श भीम संकाशम् जटा मण्डल धारिणम् ।भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् ॥१-७४-१७॥
Vālmīki 1.74.18
कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् ।ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः ॥१-७४-१८॥
Vālmīki 1.74.19
स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् ।प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् ॥१-७४-१९॥
Vālmīki 1.74.20
तम् दृष्ट्वा भीम संकाशम् ज्वलंतम् इव पावकम् ।वसिष्ठ प्रमुखा विप्रा जप होम परायणाः ॥१-७४-२०॥
Vālmīki 1.74.21
संगता मुनयः सर्वे संजजल्पुः अथो मिथः ।कच्चित् पितृ वध अमर्षी क्षत्रम् न उत्सादयिष्यति ॥१-७४-२१॥
Vālmīki 1.74.22
पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः ।क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् ॥१-७४-२२॥
Vālmīki 1.74.23
एवम् उक्त्वा अर्घ्यम् आदाय भार्गवम् भीम दर्शनम् ।ऋषयो राम राम इति मधुरम् वाक्यम् अब्रुवन् ॥१-७४-२३॥
Vālmīki 1.74.24
प्रतिगृह्य तु ताम् पूजाम् ऋषि दत्ताम् प्रतापवान् ।रामम् दाशरथिम् रामो जामदग्न्यो अभ्यभाषत ॥१-७४-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷