🪷 बालकाण्ड · Sarga 75

Bāla-Kāṇḍa · The Book of Childhood · Sarga 75 · 28 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.75.1
राम दाशरथे वीर वीर्यम् ते श्रूयते अद्भुतम् ।धनुषो भेदनम् चैव निखिलेन मया श्रुतम् ॥१-७५-१॥
Vālmīki 1.75.2
तत् अद्भुतम् अचिंत्यम् च भेदनम् धनुषः तथा ।तत् श्रुत्वा अहम् अनुप्राप्तो धनुर् गृह्य अपरम् शुभम् ॥१-७५-२॥
Vālmīki 1.75.3
तत् इदम् घोर संकाशम् जामदग्न्यम् महत् धनुः ।पूरयस्व शरेण एव स्व बलम् दर्शयस्व च ॥१-७५-३॥
Vālmīki 1.75.4
तत् अहम् ते बलम् दृष्ट्वा धनुषो अपि अस्य पूरणे ।द्वंद्व युद्धम् प्रदास्यामि वीर्य श्लाघ्यम् अहम् तव ॥१-७५-४॥
Vālmīki 1.75.5
तस्य तत् वचनम् श्रुत्वा राजा दशरथः तदा ।विषण्ण वदनो दीनः प्रांजलिः वाक्यम् अब्रवीत् ॥१-७५-५॥
Vālmīki 1.75.6
क्षत्र रोषात् प्रशांतः त्वम् ब्राह्मणः च महातपाः ।बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि ॥१-७५-६॥
Vālmīki 1.75.7
भार्गवाणाम् कुले जातः स्वाध्याय व्रत शालिनाम् ।सहस्राक्षे प्रतिज्ञाय शस्त्रम् प्रक्ष्द् इप्तवान् असि ॥१-७५-७॥
Vālmīki 1.75.8
स त्वम् धर्म परो भूत्वा काश्यपाय वसुंधराम् ।दत्त्वा वनम् उपागम्य महेन्द्र कृत केतनः ॥१-७५-८॥
Vālmīki 1.75.9
मम सर्व विनाशाय संप्राप्तः त्वम् महामुने ।न च एकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥१-७५-९॥
Vālmīki 1.75.10
ब्रुवति एवम् दशरथे जामदग्न्यः प्रतापवान् ।अनादृत्य तु तत् वाक्यम् रामम् एव अभ्यभाषत ॥१-७५-१०॥
Vālmīki 1.75.11
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोक अभिपूजिते ।दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥१-७५-११॥
Vālmīki 1.75.12
अनिसृष्टम् सुरैः एकम् त्र्यम्बकाय युयुत्सवे ।त्रिपुर घ्नम् नरश्रेष्ठ भग्नम् काकुत्स्थ यत् त्वया ॥१-७५-१२॥
Vālmīki 1.75.13
इदम् द्वितीयम् दुर्धर्षम् विष्णोर् दत्तम् सुरोत्तमैः ।तत् इदम् वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-१३॥
Vālmīki 1.75.14
समान सारम् काकुत्स्थ रौद्रेण धनुषा तु इदम् ।तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१-७५-१४॥
Vālmīki 1.75.15
शिति कण्ठस्य विष्णोः च बल अबल निरीक्षया ।अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः ॥१-७५-१५॥
Vālmīki 1.75.16
विरोधम् जनयामास तयोः सत्यवताम् वरः ।विरोधे तु महत् युद्धम् अभवत् रोम हर्षणम् ॥१-७५-१६॥
Vālmīki 1.75.17
शिति कण्ठस्य विष्णोः च परस्पर जय एषिणोः ।तदा तु जृम्भितम् शैवम् धनुः भीम पराक्रमम् ॥१-७५-१७॥
Vālmīki 1.75.18
हुम् कारेण महादेवः स्तम्भितो अथ त्रिलोचनः ।देवैः तदा समागम्य स ऋषि सन्घैः स चारणैः ॥१-७५-१८॥
Vālmīki 1.75.19
याचितौ प्रशमम् तत्र जग्मतुः तौ सुर उत्तमौ ।जृम्भितम् तत् धनुः दृष्ट्वा शैवम् विष्णु पराक्रमैः ॥१-७५-१९॥
Vālmīki 1.75.20
अधिकम् मेनिरे विष्णुम् देवाः स ऋषि गणाः तदा ।धनू रुद्रः तु संक्रुद्धो विदेहेषु महायशाः ॥१-७५-२०॥
Vālmīki 1.75.21
देवरातस्य राज ऋषेः ददौ हस्ते स सायकम् ।इदम् च वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-२१॥
Vālmīki 1.75.22
ऋचीके भार्गवे प्रादात् विष्णुः स न्यासम् उत्तमम् ।ऋचीकः तु महातेजाः पुत्रस्य अप्रतिकर्मणः ॥१-७५-२२॥
Vālmīki 1.75.23
पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः ।न्यस्त शस्त्रे पितरि मे तपो बल समन्विते ॥१-७५-२३॥
Vālmīki 1.75.24
अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः ।वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम् ।क्षत्रम् उत्सादयन् रोषात् जातम् जातम् अनेकशः ॥१-७५-२४॥
Vālmīki 1.75.25
पृथिवीम् च अखिलाम् प्राप्य काश्यपाय महात्मने ।यज्ञस्य अन्ते तदा राम दक्षिणाम् पुण्य कर्मणे ॥१-७५-२५॥
Vālmīki 1.75.26
दत्त्वा महेन्द्र निलयः तपो बल समन्वितः ।श्रुत्वा तु धनुषो भेदम् ततो अहम् द्रुतम् आगतः ॥१-७५-२६॥
Vālmīki 1.75.27
तत् एवम् वैष्णवम् राम पितृ पैतामहम् महत् ।क्षत्र धर्मम् पुरस् कृत्य गृह्णीष्व धनुर् उत्तमम् ॥१-७५-२७॥
Vālmīki 1.75.28
योजयस्व धनुः श्रेष्ठे शरम् पर पुरम् जयम् ।यदि शक्तः असि काकुत्स्थ द्वन्द्वम् दास्यामि ते ततः ॥१-७५-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷