🪷 बालकाण्ड · Sarga 71
Bāla-Kāṇḍa · The Book of Childhood · Sarga 71 · 24 ślokas
🪷 Devanāgarī Ślokas
एवम् ब्रुवाणम् जनकः प्रत्युवाच कृतांजलिः ।श्रोतुम् अर्हसि भद्रम् ते कुलम् नः परिकीर्तितम् ॥१-७१-१॥
प्रदाने हि मुनि श्रेष्ठ कुलम् निरवशेषतः ।वक्तव्यम् कुल जातेन तन् निबोध महामुने ॥१-७१-२॥
राजा अभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।निमिः परम धर्मात्मा सर्व सत्त्ववताम् वरः ॥१-७१-३॥
तस्य पुत्रो मिथिः नाम जनको मिथि पुत्रकः ।प्रथमो जनको नाम जनकात् अपि उदावसुः ॥१-७१-४॥
उदावसोः तु धर्मात्मा जातो वै नन्दिवर्धनः ।नन्दिवर्धन पुत्रः तु सुकेतुः नाम नामतः ॥१-७१-५॥
सुकेतोः अपि धर्मात्मा देवरातो महाबलः ।देवरातस्य राजर्षेः बृहद्रथ इति स्मृउतः ॥१-७१-६॥
बृहद्रथस्य शूरो अभूत् महावीरः प्रतापवान् ।महावीरस्य धृतिमान् सुधृतिः सत्य विक्रमः ॥१-७१-७॥
सुधृतेः अपि धर्मात्मा धृष्टकेतुः सु धार्मिकः ।धृष्टकेतोः च राजर्षेः हर्यश्व इति विश्रुतः ॥१-७१-८॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः ।प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥१-७१-९॥
पुत्रः कीर्तिरथस्य अपि देवमीढ इति स्मृतः ।देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥१-७१-१०॥
महीध्रक सुतो राजा कीर्तिरातो महाबलः ।कीर्ति रातस्य राजऋषेः महारोमा व्यजायत ॥१-७१-११॥
महारोम्णः तु धर्मात्मा स्वर्णरोमा व्यजायत ।स्वर्णरोम्णः तु राजर्षेः ह्रस्वरोमा व्यजायत ॥१-७१-१२॥
तस्य पुत्र द्वयम् जज्ञे धर्मज्ञस्य महात्मनः ।ज्येष्ठो अहम् अनुजो भ्राता मम वीरः कुशध्वज ॥१-७१-१३॥
माम् तु ज्येष्ठम् पिता राज्ये सो अभिषिच्य नराधिप ।कुशध्वजम् समावेश्य भारम् मयि वनम् गतः ॥१-७१-१४॥
वृद्धे पितरि स्वर् याते धर्मेण धुरम् आवहम् ।भ्रातरम् देव संकाशम् स्नेहात् पश्यन् कुशध्वजम् ॥१-७१-१५॥
कस्यचित् तु अथ कालस्य सांकाश्यात् अगमत् पुरात् ।सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः ॥१-७१-१६॥
स च मे प्रेषयामास शैवम् धनुः अनुत्तमम् ।सीता कन्या च पद्माक्षी मह्यम् वै दीयताम् इति ॥१-७१-१७॥
तस्य अप्रदानात् ब्रह्मर्षे युद्धम् आसीत् मया सह ।स हतो अभिमुखो राजा सुधन्वा तु मया रणे ॥१-७१-१८॥
निहत्य तम् मुनिश्रेष्ठ सुधन्वानम् नराधिपम् ।सांकाश्ये भ्रातरम् शूरम् अभ्यषिंचम् कुशध्वजम् ॥१-७१-१९॥
कनीयान् एष मे भ्राता अहम् ज्येष्ठो महामुने ।ददामि परम प्रीतो वध्वौ ते मुनिपुंगव ॥१-७१-२०॥
सीताम् रामाय भद्रम् ते ऊर्मिलाम् लक्ष्मणाय वै ।वीर्य शुल्काम् मम सुताम् सीताम् सुर सुत उपमाम् ॥१-७१-२१॥
द्वितीयाम् ऊर्मिलाम् चैव त्रिः वदामि न संशयः ।ददामि परम प्रीतो वध्वौ ते मुनिपुंगव ॥१-७१-२२॥
राम लक्ष्मणयो राजन् गो दानम् कारयस्व ह ।पितृ कार्यम् च भद्रम् ते ततो वैवाहिकम् कुरु ॥१-७१-२३॥
मघा हि अद्य महाबाहो तृतीये दिवसे प्रभो ।फल्गुन्याम् उत्तरे राजन् तस्मिन् वैवाहिकम् कुरु ।राम लक्ष्मणयोः अर्थे दानम् कार्यम् सुखोदयम् ॥१-७१-२४॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 70
- Next: Bāla-Kāṇḍa Sarga 72 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷