🪷 बालकाण्ड · Sarga 70
Bāla-Kāṇḍa · The Book of Childhood · Sarga 70 · 45 ślokas
🪷 Devanāgarī Ślokas
ततः प्रभाते जनकः कृत कर्मा महर्षिभिः ।उवाच वाक्यम् वाक्यज्ञः शतानंदम् पुरोहितम् ॥१-७०-१॥
भ्राता मम महातेजा यवीयान् अतिधार्मिकः ।कुशध्वज इति ख्यातः पुरीम् अध्यवसत् शुभाम् ॥१-७०-२॥
वार्या फलक पर्यन्ताम् पिबन् इक्षुमतीम् नदीम् ।सांकाश्याम् पुण्य संकाशाम् विमानम् इव पुष्पकम् ॥१-७०-३॥
तम् अहम् द्रष्टुम् इच्छामि यज्ञ गोप्ता स मे मतः ।प्रीतिम् सो अपि महातेजा इमाम् भोक्ता मया सह ॥१-७०-४॥
एवम् उक्तो तु वचने शतानंदस्य संनिधौ ।आगताः केचिद् अव्यग्रा जनकः तान् समादिशत् ॥१-७०-५॥
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्र वाजिभिः ।समानेतुम् नरव्याघ्रम् विष्णुम् इन्द्र आज्ञया यथा ॥१-७०-६॥
संकास्याम् ते समागम्य ददृशुः च कुश्ध्वजम् ।न्यवेदयन् यथा वृत्तम् जनकस्य च चिन्तितम् ॥१-७०-७॥
तद् वृत्तम् नृपतिः श्रुत्वा दूत श्रेष्ठैः महा जवैः ।आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥१-७०-८॥
स ददर्श महात्मानम् जनकम् धर्म वत्सलम् ।सो अभिवाद्य शतानंदम् जनकम् च अति धार्मिकम् ॥१-७०-९॥
राज अर्हम् परमम् दिव्यम् आसनम् च अध्यरोहत ।उपविष्टौ उभौ तौ तु भ्रातरौ अमित ओजसौ ॥१-७०-१०॥
प्रेषयामासतुः वीरौ मन्त्रि श्रेष्ठम् सुदामनम् ।गच्छ मंत्रि पते शीघ्रम् इक्ष्वाकम् अमित प्रभम् ॥१-७०-११॥
आत्मजैः सह दुर्धर्षम् आनयस्व स मंत्रिणम् ।औपकार्याम् स गत्वा तु रघूणाम् कुल वर्धनम् ॥१-७०-१२॥
ददर्श शिरसा च एनम् अभिवाद्य इदम् अब्रवीत् ।अयोध्या अधिपते वीर वैदेहो मिथिला अधिपः ॥१-७०-१३॥
स त्वाम् द्रष्टुम् व्यवसितः स उपाध्याय पुरोहितम् ।मंत्रि श्रेष्ठ वचः श्रुत्वा राजा स ऋषि गणः तदा ॥१-७०-१४॥
स बन्धुः अगमत् तत्र जनको यत्र वर्तते ।राजा च मंत्रि सहितः स उपाध्यायः स बांधवः ॥१-७०-१५॥
वाक्यम् वाक्य विदाम् श्रेष्ठो वैदेहम् इदम् अब्रवीत् ।विदितम् ते महाराज इक्ष्वाकु कुल दैवतम् ॥१-७०-१६॥
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः ।विश्वामित्र अभ्यनुज्ञातः सह सर्वैः महर्षिभिः ॥१-७०-१७॥
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथा क्रमम् ।तूष्णीम् भूते दशरथे वसिष्ठो भगवान् ऋषिः ॥१-७०-१८॥
उवाच वाक्यम् वाक्यज्ञो वैदेहम् स पुरोधसाम् ।अव्यक्त प्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥१-७०-१९॥
तस्मात् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ।विवस्वान् कश्यपात् जज्ञे मनुर् वैवस्वतः स्मृतः ॥१-७०-२०॥
मनुः प्रजापतिः पूर्वम् इक्ष्वाकुः च मनोः सुतः ।तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् ॥१-७०-२१॥
इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिः इति एव विश्रुतः ।कुक्षेः अथ आत्मजः श्रीमान् विकुक्षिः उपपद्यत ॥१-७०-२२॥
विकुक्षेः तु महातेजा बाणः पुत्रः प्रतापवान् ।बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥१-७०-२३॥
अनरण्यात् पृथुः जज्ञे त्रिशंकुः तु पृथोः सुतः ।त्रिशंकोः अभवत् पुत्रो धुन्धुमारः महायशाः ॥१-७०-२४॥
धुन्धुमारात् महातेजा युवनाश्वो महारथः ।युवनाश्व सुतः असीत् मान्धाता पृथिवी पतिः ॥१-७०-२५॥
मान्धातुः तु सुतः श्रीमान् सुसन्धिः उदपद्यत ।सुसंधेः अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥१-७०-२६॥
यशस्वी ध्रुवसंधेः तु भरतो नाम नामतः ।भरतात् तु महातेजा असितो नाम जायत ॥१-७०-२७॥
यस्य एते प्रति राजन उदपत्यन्त शात्रवः ।हैहय तालजंघाः च शूराः च शशबिंद्वः ॥१-७०-२८॥
तान् च स प्रति युद्ध्यन् वै युद्धे राजा प्रवासितः ।हिमवन्तम् उपागम्य भार्याभ्याम् सहितः तदा ॥१-७०-२९॥
असितो अल्प बलो राजा काल धर्मम् उपेयिवान् ।द्वे च अस्य भार्ये गर्भिण्यै बभूवतुः इति श्रुति ॥१-७०-३०॥
एका गर्भ विनाश अर्थम् सपत्नै सगरम् ददौ ।ततः शैलवरे रम्ये बभूव अभिरतो मुनिः ॥१-७०-३१॥
भार्गव च्यवनो नाम हिमवंतम् उपाश्रितः ।तत्र च एका महाभागा भार्गवम् देव वर्चसम् ॥१-७०-३२॥
ववन्दे पद्म पत्राक्षी कांक्षन्ती सुतम् उत्तमम् ।तम् ऋषिम् सा अभ्युपगम्य कालिन्दी च अभ्यवादत ॥१-७०-३३॥
स ताम् अभ्यवदत् विप्रः पुत्र ईप्सुम् पुत्र जन्मनि ।तव कुक्षौ महाभागे सु पुत्रः सु महाबलः ॥१-७०-३४॥
महावीर्यो महातेजा अचिरात् संजनिष्यति ।गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥१-७०-३५॥
च्यवनम् च नमस्कृत्य राजपुत्री पतिव्रता ।पत्या विरहिता तस्मात् पुत्रम् देवी व्यजायत ॥१-७०-३६॥
सपत्न्या तु गरः तस्यैः दत्तो गर्भ जिघांसया ।सह तेन गरेण एव संजातः सगरोइ अभवत् ॥१-७०-३७॥
सगरस्य अस्य असमंजः तु असमंजात् अथ अंशुमान् ।दिलीपो अंशुमतः पुत्रो दिलीपस्य भगीरथः ॥१-७०-३८॥
भगीरथात् ककुत्स्थः च ककुत्स्थस्य रघुः तथा ।रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुषादकः ॥१-७०-३९॥
कल्माषपादो हि अभवत् तस्मात् जातः तु शङ्खणः ।सुदर्शनः शंखणस्य अग्निवर्णः सुदर्शनात् ॥१-७०-४०॥
शीघ्रगः तु अग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।मरोः प्रशुश्रुकः तु आसीत् अंबरीषः प्रशुश्रुकात् ॥१-७०-४१॥
अंबरीषस्य पुत्रो अभूत् नहुषः च महीपतिः ।नहुषस्य ययातिः तु नाभागः तु ययाति जः ॥१-७०-४२॥
नाभागस्य भभूव अज अजात् दशरथो अभवत् ।अस्मात् दशरथात् जातौ भ्रातरौ राम लक्ष्मणौ ॥१-७०-४३॥
आदि वंश विशुद्धानाम् राज्ञाम् परम धर्मिणाम् ।इक्ष्वाकु कुल जातानाम् वीराणाम् सत्य वादिनाम् ॥१-७०-४४॥
राम लक्ष्मणयोः अर्थे त्वत् सुते वरये नृप ।सदृशाभ्याम् नरश्रेष्ठ सदृशे दातुम् अर्हसि ॥१-७०-४५॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 69
- Next: Bāla-Kāṇḍa Sarga 71 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷