🪷 बालकाण्ड · Sarga 69
Bāla-Kāṇḍa · The Book of Childhood · Sarga 69 · 19 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततो रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः ।राजा दशरथो हृष्टः सुमंत्रम् इदम् अब्रवीत् ॥१-६९-१॥
अद्य सर्वे धन अध्यक्षा धनम् आदाय पुष्कलम् ।व्रजंति अग्रे सु विहिता नाना रत्न समन्विताः ॥१-६९-२॥
चतुरंग बलम् च अपि शीघ्रम् निर्यातु सर्वशः ।मम आज्ञा समकालम् च यानम् युग्मम् अनुत्तमम् ॥१-६९-३॥
वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः ।मार्कण्डेयः च दीर्घायुः ऋषिः कात्यायनः तथा ॥१-६९-४॥
एते द्विजाः प्रयान्तु अग्रे स्यंदनम् योजयस्व मे ।यथा काल अत्ययो न स्यात् दूता हि त्वरयन्ति माम् ॥१-६९-५॥
वचनात् च नरेन्द्रस्य सेना च चतुरंगिणी ।राजानम् ऋषिभिः सार्धम् व्रजंतम् पृष्ठतो अन्वगात् ॥१-६९-६॥
गत्वा चतुर् अहम् मार्गम् विदेहान् अभ्युपेयिवान् ।राजा तु जनकः श्रीमान् श्रुत्वा पूजाम् अकल्पयत् ॥१-६९-७॥
ततो राजानम् आसाद्य वृद्धम् दशरथम् नृपम् ।जनको मुदितो राजा हर्षम् च परमम् ययौ ॥१-६९-८॥
उवाच वचनम् श्रेष्ठो नरश्रेष्ठम् मुदा अन्वितम् ।स्वागतम् ते नरश्रेष्ठः दिष्ट्या प्राप्तो असि राघव ॥१-६९-९॥
पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य निर्जिताम् ।दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः ॥१-६९-१०॥
सह सर्वैः द्विज श्रेष्ठैः देवैः इव शतक्रतुः ।दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम् ॥१-६९-११॥
राघवैः सह संबंधात् वीर्य श्रेष्ठैः महात्मभिः ।श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुम् अर्हसि ॥१-६९-१२॥
यज्ञस्य अन्ते नरश्रेष्ठ विवाहम् ऋषि सत्तमैः ।तस्य तत् वचनम् श्रुत्वा ऋषि मध्ये नराधिपः ॥१-६९-१३॥
वाक्यम् वाक्यविदाम् श्रेष्ठः प्रत्युवाच महीपतिम् ।प्रतिग्रहो दातृ वशः श्रुतम् एतत् मया पुरा ॥१-६९-१४॥
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् ।तत् धर्मिष्ठम् यशस्यम् च वचनम् सत्य वादिनः ॥१-६९-१५॥
श्रुत्वा विदेह अधिपतिः परम् विस्मयम् आगतः ।ततः सर्वे मुनि गणाः परस्पर समागमे ॥१-६९-१६॥
हर्षेण महता युक्ताः ताम् निशाम् अवसन् सुखम् ।अथ रामो महातेजा लक्ष्मणेन समम् ययौ ॥१-६९-१७॥
विश्वामित्रम् पुरस्कृत्य पितुः पादौ उपस्पृशन् ।राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥१-६९-१८॥
उवास परम प्रीतो जनकेन सुपूजितः ।जनको अपि महातेजाः क्रिया धर्मेण तत्त्ववित् ।यज्ञस्य च सुताभ्याम् च कृत्वा रात्रिम् उवास ह ॥१-६९-१९॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 68
- Next: Bāla-Kāṇḍa Sarga 73 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷