🪷 बालकाण्ड · Sarga 68

Bāla-Kāṇḍa · The Book of Childhood · Sarga 68 · 19 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.68local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.68.1
जनकेन समादिष्टा दूताः ते क्लान्त वाहनाः ।त्रि रात्रम् उषिता मार्गे ते अयोध्याम् प्राविशन् पुरीम् ॥१-६८-१॥
Vālmīki 1.68.2
ते राज वचनात् गत्वा राजवेश्म प्रवेशिताः ।ददृशुः देव संकाशम् वृद्धम् दशरथम् नृपम् ॥१-६८-२॥
Vālmīki 1.68.3
बद्ध अंजलि पुटाः सर्वे दूता विगत साध्वसाः ।राजानम् प्रश्रितम् वाक्यम् अब्रुवन् मधुर अक्षरम् ॥१-६८-३॥
Vālmīki 1.68.4
मैथिलो जनको राजा स अग्नि होत्र पुरस्कृतः ।मुहुर् मुहुर् मधुरया स्नेह संरक्तया गिरा ॥१-६८-४॥
Vālmīki 1.68.5
कुशलम् च अव्ययम् चैव स उपाध्याय पुरोहितम् ।जनकः त्वाम् महाराज पृच्छते स पुरः सरम् ॥१-६८-५॥
Vālmīki 1.68.6
पृष्ट्वा कुशलम् अव्यग्रम् वैदेहो मिथिलाधिपः ।कौशिक अनुमते वाक्यम् भवन्तम् इदम् अब्रवीत् ॥१-६८-६॥
Vālmīki 1.68.7
पूर्वम् प्रतिज्ञा विदिता वीर्य शुल्का मम आत्मजा ।राजानः च कृत अमर्षा निर्वीर्या विमुखी कृताः ॥१-६८-७॥
Vālmīki 1.68.8
सा इयम् मम सुता राजन् विश्वामित्र पुरस्कृतैः ।यदृच्छया आगतैः वीरैः निर्जिता तव पुत्रकैः ॥१-६८-८॥
Vālmīki 1.68.9
तत् च रत्नम् धनुर् दिव्यम् मध्ये भग्नम् महात्मना ।रामेण हि महाबाहो महत्याम् जन संसदि ॥१-६८-९॥
Vālmīki 1.68.10
अस्मै देया मया सीता वीर्य शुल्का महात्मने ।प्रतिज्ञाम् तर्तुम् इच्छामि तत् अनुज्ञातुम् अर्हसि ॥१-६८-१०॥
Vālmīki 1.68.11
स उपाध्यायो महाराज पुरोहित पुरस्कृतः ।शीघ्रम् आगच्छ भद्रम् ते द्रष्टुम् अर्हसि राघवौ ॥१-६८-११॥
Vālmīki 1.68.12
प्रतिज्ञाम् मम राजेन्द्र निर्वर्तयितुम् अर्हसि ।पुत्रयोः उभयोः एव प्रीतिम् त्वम् अपि लप्स्यसे ॥१-६८-१२॥
Vālmīki 1.68.13
एवम् विदेह अधिपतिः मधुरम् वाक्यम् अब्रवीत् ।विश्वामित्र अभ्यनुज्ञातः शताअनन्द मते स्थितः ॥१-६८-१३॥
Vālmīki 1.68.14
दूत वाक्यम् तु तत् श्रुत्वा राजा परम हर्षितः ।वसिष्ठम् वामदेवम् च मंत्रिणः च एवम् अब्रवीत् ॥१-६८-१४॥
Vālmīki 1.68.15
गुप्तः कुशिक पुत्रेण कौसल्य आनन्द वर्धनः ।लक्ष्मणेन सह भ्रात्रा विदेहेषु वसति असौ ॥१-६८-१५॥
Vālmīki 1.68.16
दृष्ट वीर्यः तु काकुत्स्थो जनकेन महात्मना ।संप्रदानम् सुतायाः तु राघवे कर्तुम् इच्छति ॥१-६८-१६॥
Vālmīki 1.68.17
यदि वो रोचते वृत्तम् जनकस्य महात्मनः ।पुरीम् गच्छामहे शीघ्रम् मा भूत् कालस्य पर्ययः ॥१-६८-१७॥
Vālmīki 1.68.18
मंत्रिणो बाढम् इति आहुः सह सर्वैः महर्षिभिः ।सु प्रीतः च अब्रवीत् राजा श्वः यात्रा इति च मंत्रिणः ॥१-६८-१८॥
Vālmīki 1.68.19
मंत्रिणः तु नरेन्द्रस्य रात्रिम् परम सत्कृताः ।ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥१-६८-१९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷