🪷 बालकाण्ड · Sarga 67

Bāla-Kāṇḍa · The Book of Childhood · Sarga 67 · 27 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.67.1
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ॥१-६७-१॥
Vālmīki 1.67.2
ततः स राजा जनकः सचिवान् व्यादिदेश ह ।धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ॥१-६७-२॥
Vālmīki 1.67.3
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् ।तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ॥१-६७-३॥
Vālmīki 1.67.4
नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् ।मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ॥१-६७-४॥
Vālmīki 1.67.5
ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः ।सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ॥१-६७-५॥
Vālmīki 1.67.6
इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः ।मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ॥१-६७-६॥
Vālmīki 1.67.7
तेषाम् नृपो वचः श्रुत्वा कृत अंजलिः अभाषत ।विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ॥१-६७-७॥
Vālmīki 1.67.8
इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् ।राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ॥१-६७-८॥
Vālmīki 1.67.9
न एतत् सुर गणाः सर्वे स असुरा न च राक्षसाः ।गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-६७-९॥
Vālmīki 1.67.10
क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे ।आरोपणे समायोगे वेपने तोलने अपि वा ॥१-६७-१०॥
Vālmīki 1.67.11
तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव ।दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ॥१-६७-११॥
Vālmīki 1.67.12
विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् ।वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥१-६७-१२॥
Vālmīki 1.67.13
महर्षेः वचनात् रामो यत्र तिष्ठति तत् धनुः ।मंजूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत् ॥१-६७-१३॥
Vālmīki 1.67.14
इदम् धनुर्वरम् ब्रह्मन् संस्पृशामि इह पाणिना ।यत्नवान् च भविष्यामि तोलने पूरणे अपि वा ॥१-६७-१४॥
Vālmīki 1.67.15
बाढम् इति एव तम् राजा मुनिः च समभाषत ।लीलया स धनुर् मध्ये जग्राह वचनात् मुनेः ॥१-६७-१५॥
Vālmīki 1.67.16
पश्यताम् नृ सहस्राणाम् बहूनाम् रघुनंदनः ।आरोपयत् स धर्मात्मा स लीलम् इव तत् धनुः ॥१-६७-१६॥
Vālmīki 1.67.17
आरोपयित्वा मौर्वीम् च पूरयामास वीर्यवान् ।तत् बभंज धनुर् मध्ये नरश्रेष्ठो महायशाः ॥१-६७-१७॥
Vālmīki 1.67.18
तस्य शब्दो महान् आसीत् निर्घात सम निःस्वनः ।भूमि कंपः च सुमहान् पर्वतस्य इव दीर्यतः ॥१-६७-१८॥
Vālmīki 1.67.19
निपेतुः च नराः सर्वे तेन शब्देन मोहिताः ।व्रजयित्वा मुनि वरम् राजानम् तौ च राघवौ ॥१-६७-१९॥
Vālmīki 1.67.20
प्रति आश्वस्तो जने तस्मिन् राजा विगत साध्वसः ।उवाच प्रांजलिः वाक्यम् वाक्यज्ञो मुनिपुंगवम् ॥१-६७-२०॥
Vālmīki 1.67.21
भगवन् दृष्ट वीर्यो मे रामो दशरथ आत्मजः ।अति अद्भुतम् अचिंत्यम् च अतर्कितम् इदम् मया ॥१-६७-२१॥
Vālmīki 1.67.22
जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता ।सीता भर्तारम् आसाद्य रामम् दशरथ आत्मजम् ॥१-६७-२२॥
Vālmīki 1.67.23
मम सत्या प्रतिज्ञा सा वीर्य शुल्का इति कौशिक ।सीता प्राणैः बहुमता देया रामाय मे सुता ॥१-६७-२३॥
Vālmīki 1.67.24
भवतो अनुमते ब्रह्मन् शीघ्रम् गच्छंतु मंत्रिणः ।मम कौशिक भद्रम् ते अयोध्याम् त्वरिता रथैः ॥१-६७-२४॥
Vālmīki 1.67.25
राजानम् प्रश्रितैः वाक्यैः आनयंतु पुरम् मम ।प्रदानम् वीर्य शुक्लायाः कथयंतु च सर्वशः ॥१-६७-२५॥
Vālmīki 1.67.26
मुनि गुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।प्रीति युक्तम् तु राजानम् आनयंतु सु शीघ्र गाः ॥१-६७-२६॥
Vālmīki 1.67.27
कौशिकः च तथा इति आह राजा च आभाष्य मंत्रिणः ।अयोध्याम् प्रेषयामास धर्मात्मा कृत शासनान् ।यथा वृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा ॥१-६७-२७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷