🪷 बालकाण्ड · Sarga 66

Bāla-Kāṇḍa · The Book of Childhood · Sarga 66 · 26 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.66local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.66.1
ततः प्रभाते विमले कृत कर्मा नराधिपः ।विश्वामित्रम् महात्मानम् आजुहाव स राघवम् ॥१-६६-१॥
Vālmīki 1.66.2
तम् अर्चयित्वा धर्माअत्मा शास्त्र दृष्टेन कर्मणा ।राघवौ च महात्मानौ तदा वाक्यम् उवाच ह ॥१-६६-२॥
Vālmīki 1.66.3
भगवन् स्वागतम् ते अस्तु किम् करोमि तव अनघ ।भवान् आज्ञापयतु माम् आज्ञाप्यो भवता हि अहम् ॥१-६६-३॥
Vālmīki 1.66.4
एवम् उक्तः स धर्मात्मा जनकेन महात्मना ।प्रत्युवाच मुनिर् वीरम् वाक्यम् वाक्य विशारदः ॥१-६६-४॥
Vālmīki 1.66.5
पुत्रौ दशरथस्य इमौ क्षत्रियौ लोक विश्रुतौ ।द्रष्टु कामौ धनुः श्रेष्ठम् यत् एतत् त्वयि तिष्ठति ॥१-६६-५॥
Vālmīki 1.66.6
एतत् दर्शय भद्रम् ते कृत कामौ नृप आत्मजौ ।दर्शनात् अस्य धनुषो यथा इष्टम् प्रतियास्यतः ॥१-६६-६॥
Vālmīki 1.66.7
एवम् उक्तः तु जनकः प्रत्युवाच महामुनिम् ।श्रूयताम् अस्य धनुषो यत् अर्थम् इह तिष्ठति ॥१-६६-७॥
Vālmīki 1.66.8
देवरात इति ख्यातो निमेः ज्येष्ठो मही पतिः ।न्यासो अयम् तस्य भगवन् हस्ते दत्तो महात्मना ॥१-६६-८॥
Vālmīki 1.66.9
दक्ष यज्ञ वधे पूर्वम् धनुः आयम्य वीर्यवान् ।रुद्रः तु त्रिदशान् रोषात् स लीलम् इदम् अब्रवीत् ॥१-६६-९॥
Vālmīki 1.66.10
यस्मात् भाग अर्थिनो भागान् न अकल्पयत मे सुराः ।वर अंगानि महाअर्हाणि धनुषा शातयामि वः ॥१-६६-१०॥
Vālmīki 1.66.11
ततो विमनसः सर्वे देवा वै मुनिपुंगव ।प्रसादयन्ति देवेशम् तेषाम् प्रीतो अभवत् भवः ॥१-६६-११॥
Vālmīki 1.66.12
प्रीति युक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम् ।तत् एतत् देवदेवस्य धनू रत्नम् महात्मनः ॥१-६६-१२॥
Vālmīki 1.66.13
न्यासभूतम् तदा न्यस्तम् अस्माकम् पूर्वजे विभो ।अथ मे कृषतः क्षेत्रम् लांगलात् उत्थिता मम ॥१-६६-१३॥
Vālmīki 1.66.14
क्षेत्रम् शोधयता लब्ध्वा नाम्ना सीता इति विश्रुता ।भू तलात् उत्थिता सा तु व्यवर्धत मम आत्मजा ॥१-६६-१४॥
Vālmīki 1.66.15
वीर्य शुल्का इति मे कन्या स्थापिता इयम् अयोनिजा ।भूतलात् उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम् ॥१-६६-१५॥
Vālmīki 1.66.16
वरयामासुः आगम्य राजानो मुनिपुंगव ।तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् ॥१-६६-१६॥
Vālmīki 1.66.17
वीर्य शुल्का इति भगवन् न ददामि सुताम् अहम् ।ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१-६६-१७॥
Vālmīki 1.66.18
मिथिलाम् अभ्युपागम्य वीर्यम् जिज्ञासवः तदा ।तेषाम् जिज्ञासमानानाम् शैवम् धनुः उपाहृतम् ॥१-६६-१८॥
Vālmīki 1.66.19
न शेकुः ग्रहणे तस्य धनुषः तोलने अपि वा ।तेषाम् वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महामुने ॥१-६६-१९॥
Vālmīki 1.66.20
प्रत्याख्याता नृपतयः तन् निबोध तपोधन ।ततः परम कोपेन राजानो मुनिपुंगव ॥१-६६-२०॥
Vālmīki 1.66.21
अरुन्धन् मिथिलाम् सर्वे वीर्य संदेहम् आगताः ।आत्मानम् अवधूतम् ते विज्ञाय मुनिपुंगव ॥१-६६-२१॥
Vālmīki 1.66.22
रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम् ।ततः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः ॥१-६६-२२॥
Vālmīki 1.66.23
साधनानि मुनिश्रेष्ठ ततो अहम् भृश दुःखितः ।ततो देव गणान् सर्वान् तपसा अहम् प्रसादयम् ॥१-६६-२३॥
Vālmīki 1.66.24
ददुः च परम प्रीताः चतुरंग बलम् सुराः ।ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥१-६६-२४॥
Vālmīki 1.66.25
अवीर्या वीर्य संदिग्धा स अमात्याः पाप कारिणः ।तत् एतत् मुनिशार्दूल धनुः परम भास्वरम् ॥१-६६-२५॥
Vālmīki 1.66.26
राम लक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत ।यदि अस्य धनुषो रामः कुर्यात् आरोपणम् मुने ।सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम् ॥१-६६-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷