🪷 बालकाण्ड · Sarga 65

Bāla-Kāṇḍa · The Book of Childhood · Sarga 65 · 40 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.65.1
अथ हैमवतीम् राम दिशम् त्यक्त्वा महामुनिः ।पूर्वाम् दिशम् अनुप्राप्य तपः तेपे सुदारुणम् ॥१-६५-१॥
Vālmīki 1.65.2
मौनम् वर्ष सहस्रस्य कृत्वा व्रतम् अनुत्तमम् ।चकार अप्रतिमम् राम तपः परम दुष्करम् ॥१-६५-२॥
Vālmīki 1.65.3
पूर्णे वर्ष सहस्रे तु काष्ठ भूतम् महामुनिम् ।विघ्नैः बहुभिः आधूतम् क्रोधो न अंतरम् आविशत् ॥१-६५-३॥
Vālmīki 1.65.4
सः कृत्वा निश्चयम् राम तप आतिष्टत् अव्ययम् ।तस्य वर्ष सहस्रस्य व्रते पूर्णे महाव्रतः ॥१-६५-४॥
Vālmīki 1.65.5
भोक्तुम् आरब्धवान् अन्नम् तस्मिन् काले रघूत्तम ।इन्द्रो द्विजातिः भूत्वा तम् सिद्ध अन्नम् अयाचत् ॥१-६५-५॥
Vālmīki 1.65.6
तस्मैः दत्त्वा तदा सिद्धम् सर्वम् विप्राय निश्चितः ।निःषेषिते अन्ने भगवान् अभुक्त्वा इव महातपाः ॥१-६५-६॥
Vālmīki 1.65.7
न किंचित् अवदत् विप्रम् मौन व्रतम् उपास्थितः ।तथा एव आसीत् पुनः मौनम् अनुच्छ्वासम् चकार ह ॥१-६५-७॥
Vālmīki 1.65.8
अथ वर्ष सहस्रम् च न उच्छ्वसन् मुनिपुंगवः ।तस्य अनुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥१-६५-८॥
Vālmīki 1.65.9
त्रै लोक्यम् येन संभ्रांतम् आतापितम् इव अभवत् ।ततो देवर्षि गन्धर्वाः पन्नग उरग राक्षसाः ॥१-६५-९॥
Vālmīki 1.65.10
मोहिता तपसा तस्य तेजसा मंदरश्मयः ।कश्मल उपहताः सर्वे पितामहम् अथ अब्रुवन् ॥१-६५-१०॥
Vālmīki 1.65.11
बहुभिः कारणैः देव विश्वामित्रो महामुनिः ।लोभितः क्रोधितः चैव तपसा च अभिवर्धते ॥१-६५-११॥
Vālmīki 1.65.12
न हि अस्य वृजिनम् किंचित् दृश्यते सूक्ष्मम् अपि अथ ।न दीयते यदि तु अस्य मनसा यत् अभीप्सितम् ॥१-६५-१२॥
Vālmīki 1.65.13
विनाशयति त्रैलोक्यम् तपसा स चर अचरम् ।व्याकुलाः च दिशः सर्वा न च किंचित् प्रकाशते ॥१-६५-१३॥
Vālmīki 1.65.14
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।प्रकंपते च वसुधा वायुः वाति इह संकुलः ॥१-६५-१४॥
Vālmīki 1.65.15
ब्रह्मन् नप्रतिजानीमो नास्तिको जायते जनः ।सम्मूढम् इव त्रैलोक्यम् संप्रक्षुभित मानसम् ॥१-६५-१५॥
Vālmīki 1.65.16
भास्करो निष्प्रभः चैव महर्षेः तस्य तेजसा ।बुद्धिम् न कुरुते यावत् नाशे देव महामुनिः ॥१-६५-१६॥
Vālmīki 1.65.17
तावत् प्रसादो भगवान् अग्नि रूपो महाद्युतिः ।काल अग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते अखिलम् ॥१-६५-१७॥
Vālmīki 1.65.18
देव राज्यम् चिकीर्षेत दीयताम् अस्य यत् मतम् ।ततः सुर गणाः सर्वे पितामह पुरोगमाः ॥१-६५-१८॥
Vālmīki 1.65.19
विश्वामित्रम् महात्मानम् वाक्यम् मधुरम् अब्रुवन् ।ब्रह्मर्षे स्वागतम् ते अस्तु तपसा स्म सु तोषिताः ॥१-६५-१९॥
Vālmīki 1.65.20
ब्राह्मण्यम् तपसा उग्रेण प्राप्तवान् असि कौशिक ।दीर्घम् आयुः च ते ब्रह्मन् ददामि स मरुद् गणः ॥१-६५-२०॥
Vālmīki 1.65.21
स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथा सुखम् ।पितामह वचः श्रुत्वा सर्वेषाम् त्रिदिव ओकसाम् ॥१-६५-२१॥
Vālmīki 1.65.22
कृत्वा प्रणामम् मुदितो व्याजहार महामुनिः ।ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घम् आयुः तथैव च ॥१-६५-२२॥
Vālmīki 1.65.23
आऊं कारो अथ वषट् कारो वेदाः च वरयन्तु माम् ।क्षत्र वेदविदाम् श्रेष्ठो ब्रह्म वेदविदाम् अपि ॥१-६५-२३॥
Vālmīki 1.65.24
ब्रह्म पुत्रो वसिष्ठो माम् एवम् वदतु देवताः ।यदि अयम् परमः कामः कृतो यान्तु सुरर्षभाः ॥१-६५-२४॥
Vālmīki 1.65.25
ततः प्रसादितो देवैः वसिष्ठो जपताम् वरः ।सख्यम् चकार ब्रह्मर्षिः एवम् अस्तु इति च अब्रवीत् ॥१-६५-२५॥
Vālmīki 1.65.26
ब्रह्मर्षिः त्वम् न संदेहः सर्वम् संपद्यते तव ।इति उक्त्वा देवताः च अपि सर्वा जग्मुः यथा आगतम् ॥१-६५-२६॥
Vālmīki 1.65.27
विश्वामित्रो अपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् ।पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम् ॥१-६५-२७॥
Vālmīki 1.65.28
कृत कामो महीम् सर्वाम् चचार तपसि स्थितः ।एवम् तु अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना ॥१-६५-२८॥
Vālmīki 1.65.29
एष राम मुनि श्रेष्ठ एष विग्रहवान् तपः ।एष धर्मः परो नित्यम् वीर्यस्य एष परायणम् ॥१-६५-२९॥
Vālmīki 1.65.30
एवम् उक्त्वा महातेजा विरराम द्विजोत्तमः ।शतानंद वचः श्रुत्वा राम लक्ष्मण संनिधौ ॥१-६५-३०॥
Vālmīki 1.65.31
जनकः प्रांजलिः वाक्यम् उवाच कुशिकाअत्मजम् ।धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनिपुंगव ॥१-६५-३१॥
Vālmīki 1.65.32
यज्ञम् काकुत्स्थ सहितः प्राप्तवान् असि कौशिक ।पावितो अहम् त्वया ब्रह्मन् दर्शनेन महामुने ॥१-६५-३२॥
Vālmīki 1.65.33
गुणा बहु विधाः प्राप्ताः तव संदर्शनात् मया ।विस्तरेण च वै ब्रह्मन् कीर्त्यमानम् महत्तपः ॥१-६५-३३॥
Vālmīki 1.65.34
श्रुतम् मया महातेजो रामेण च महात्मना ।सदस्यैः प्राप्य च सदः श्रुताः ते बहवो गुणाः ॥१-६५-३४॥
Vālmīki 1.65.35
अप्रमेयम् तपः तुभ्यम् अप्रमेयम् च ते बलम् ।अप्रमेया गुणाः चैव नित्यम् ते कुशिकात्मज ॥१-६५-३५॥
Vālmīki 1.65.36
तृप्तिः आश्चर्य भूतानाम् कथानाम् न अस्ति मे विभो ।कर्म कालो मुनि श्रेष्ठ लम्बते रवि मण्डलम् ॥१-६५-३६॥
Vālmīki 1.65.37
श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि माम् पुनः ।स्वागतम् जपताम् श्रेष्ठ माम् अनुज्ञातुम् अर्हसि ॥१-६५-३७॥
Vālmīki 1.65.38
एवम् उक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।विससर्ज आशु जनकम् प्रीतम् प्रीतिमान् तदाअ ॥१-६५-३८॥
Vālmīki 1.65.39
एवम् उक्त्वा मुनि श्रेष्ठम् वैदेहो मिथिला अधिपः ।प्रदक्षिणम् चकार आशु स उपाध्यायः स बांधवः ॥१-६५-३९॥
Vālmīki 1.65.40
विश्वामित्रो अपि धर्मात्मा सह रामः स लक्ष्मणः ।स्वम् वासम् अभिचक्राम पूज्यमानो महर्षिभिः ॥१-६५-४०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷