🪷 अयोध्याकाण्ड · Sarga 97

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 97 · 31 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.97.1
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥२-९७-१॥
Vālmīki 2.97.2
किमत्र धनुषा कार्यमसिना वा सचर्मणा।महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥२-९७-२॥
Vālmīki 2.97.3
पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥२-९७-३॥
Vālmīki 2.97.4
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥२-९७-४॥
Vālmīki 2.97.5
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥२-९७-५॥
Vālmīki 2.97.6
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥२-९७-६॥
Vālmīki 2.97.7
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥२-९७-७॥
Vālmīki 2.97.8
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥२-९७-८॥
Vālmīki 2.97.9
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:।मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ॥२-९७-९॥
Vālmīki 2.97.10
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥२-९७-१०॥
Vālmīki 2.97.11
स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:।द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ॥२-९७-११॥
Vālmīki 2.97.12
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ॥२-९७-१२॥
Vālmīki 2.97.13
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥२-९७-१३॥
Vālmīki 2.97.14
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥२-९७-१४॥
Vālmīki 2.97.15
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:।अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ॥२-९७-१५॥
Vālmīki 2.97.16
कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि।भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ॥२-९७-१६॥
Vālmīki 2.97.17
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥२-९७-१७॥
Vālmīki 2.97.18
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:।राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥२-९७-१८॥
Vālmīki 2.97.19
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:।लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ॥२-९७-१९॥
Vālmīki 2.97.20
तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह।त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ॥२-९७-२०॥
Vālmīki 2.97.21
व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह।एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ॥२-९७-२१॥
Vālmīki 2.97.22
अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ।वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥२-९७-२२॥
Vālmīki 2.97.23
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।पिता मे राघव: श्रीमान् वनादादाय यास्यति ॥२-९७-२३॥
Vālmīki 2.97.24
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥२-९७-२४॥
Vālmīki 2.97.25
स एष सुमहाकाय: कम्पते वाहिनीमुखे।नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ॥२-९७-२५॥
Vālmīki 2.97.26
न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्।पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥२-९७-२६॥
Vālmīki 2.97.27
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥२-९७-२७॥
Vālmīki 2.97.28
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:।लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ॥२-९७-२८॥
Vālmīki 2.97.29
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति।समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥२-९७-२९॥
Vālmīki 2.97.30
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥२-९७-३०॥
Vālmīki 2.97.31
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥२-९७-३१॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷