🪷 अयोध्याकाण्ड · Sarga 96
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 96 · 31 ślokas
🪷 Devanāgarī Ślokas
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥२-९६-१॥
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।एवमास्ते स धर्मात्मा सीतया सह राघव: ॥२-९६-२॥
तथा तत्रासतस्तस्य भरतस्योपयायिन: ।सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥२-९६-३॥
एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ॥२-९६-४॥
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥२-९६-५॥
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥२-९६-६॥
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ॥२-९६-७॥
गजयूथानि वा ऽरण्ये महिषा वा महावने ।वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ॥२-९६-८॥
राजा वा राजमात्रो वा मृगयामटते वने ।अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥२-९६-९॥
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥२-९६-१०॥
स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ॥२-९६-११॥
उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ॥२-९६-१२॥
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रीत् ॥२-९६-१३॥
अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥२-९६-१४॥
तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥२-९६-१५॥
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषित: पावको यथा ॥२-९६-१६॥
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ॥२-९६-१७॥
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ॥२-९६-१८॥
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ॥२-९६-१९॥
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ॥२-९६-२०॥
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥२-९६-२१॥
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥२-९६-२२॥
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥२-९६-२३॥
भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥२-९६-२४॥
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥२-९६-२५॥
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ॥२-९६-२६॥
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥२-९६-२७॥
अद्येमं संयतं क्रोधमसत्कारं च मानद ।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥२-९६-२८॥
अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥२-९६-२९॥
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ॥२-९६-३०॥
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।ससैन्यं भरतं हत्वा भविष्यामि न संशय: ॥२-९६-३१॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 95
- Next: Ayodhyā-Kāṇḍa Sarga 97 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷