🪷 अयोध्याकाण्ड · Sarga 95

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 95 · 19 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.95.1
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: ।अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१॥
Vālmīki 2.95.2
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।विदेहराजस्य सुतां रामो राजीवलोचन: ॥ २.९५.२॥
Vālmīki 2.95.3
विचित्रपुलिनां रम्यां हंससारससेविताम् ।कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३॥
Vālmīki 2.95.4
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: ।राजन्तीं राजराजस्य नलिनीमिव सर्वत: ॥ २.९५.४॥
Vālmīki 2.95.5
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५॥
Vālmīki 2.95.6
जटाजिनधरा: काले वल्कलोत्तरवासस: ।ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६॥
Vālmīki 2.95.7
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: ।एते परे विशालाक्षि मुनय: संशितव्रता: ॥ २.९५.७॥
Vālmīki 2.95.8
मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: ।पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८॥
Vālmīki 2.95.9
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९॥
Vālmīki 2.95.10
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१०॥
Vālmīki 2.95.11
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: ।अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ॥ २.९५.११॥
Vālmīki 2.95.12
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२॥
Vālmīki 2.95.13
विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: ।नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३॥
Vālmīki 2.95.14
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४॥
Vālmīki 2.95.15
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५॥
Vālmīki 2.95.16
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: ।त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६॥
Vālmīki 2.95.17
उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: ।नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७॥
Vālmīki 2.95.18
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: ।सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ॥ २.९५.१८॥
Vālmīki 2.95.19
इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् ।चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ॥ २.९५.१९ ॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷