🪷 अयोध्याकाण्ड · Sarga 94
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 94 · 27 ślokas
🪷 Devanāgarī Ślokas
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥२-९४-१॥
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ॥२-९४-२॥
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥२-९४-३॥
पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥२-९४-४॥
केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ॥२-९४-५॥
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ॥२-९४-६॥
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ॥२-९४-७॥
आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ॥२-९४-८॥
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ॥२-९४-९॥
पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ॥२-९४-१०॥
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ॥२-९४-११॥
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥२-९४-१२॥
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ॥२-९४-१३॥
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥२-९४-१४॥
यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ॥२-९४-१५॥
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥२-९४-१६॥
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥२-९४-१७॥
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥२-९४-१८॥
इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ॥२-९४-१९॥
शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ॥२-९४-२०॥
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ॥२-९४-२१॥
केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥२-९४-२२॥
भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ॥२-९४-२३॥
कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥२-९४-२४॥
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।कामिभिर्वनिते पश्य फलानि विविधानि च ॥२-९४-२५॥
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ॥२-९४-२६॥
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ॥२-९४-२७॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 93
- Next: Ayodhyā-Kāṇḍa Sarga 95 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷