🪷 अयोध्याकाण्ड · Sarga 93

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 93 · 27 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.93.1
तया महत्या यायिन्या ध्वजिन्या वनवासिन: ।अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ॥ २.९३.१॥
Vālmīki 2.93.2
ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: ।दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥
Vālmīki 2.93.3
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: ।वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३॥
Vālmīki 2.93.4
सागरौघनिभा सेना भरतस्य महात्मन: ।महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ॥ २.९३.४॥
Vālmīki 2.93.5
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५॥
Vālmīki 2.93.6
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: ।उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६॥
Vālmīki 2.93.7
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७॥
Vālmīki 2.93.8
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८॥
Vālmīki 2.93.9
गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ॥ २.९३.९॥
Vālmīki 2.93.10
मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु ।नीला इवातपापाये तोयं तोयधरा घना: ॥ २.९३.१०॥
Vālmīki 2.93.11
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११॥
Vālmīki 2.93.12
एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: ।वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२॥
Vālmīki 2.93.13
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ॥ २.९३.१३॥
Vālmīki 2.93.14
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४॥
Vālmīki 2.93.15
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५॥
Vālmīki 2.93.16
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६॥
Vālmīki 2.93.17
एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् ।एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ॥ २.९३.१७॥
Vālmīki 2.93.18
अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा ।तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८॥
Vālmīki 2.93.19
मृगा मृगीभि: सहिता बहव: पृषता वने ।मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ॥ २.९३.१९॥
Vālmīki 2.93.20
साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने ।यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२०॥
Vālmīki 2.93.21
भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: ।विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ॥ २.९३.२१॥
Vālmīki 2.93.22
ते समालोक्य धूमाग्रमूचुर्भरतमागता: ।नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२॥
Vālmīki 2.93.23
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ॥ २.९३.२३॥
Vālmīki 2.93.24
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ॥ २.९३.२४॥
Vālmīki 2.93.25
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: ।अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५॥
Vālmīki 2.93.26
एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: ।भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६॥
Vālmīki 2.93.27
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: ।बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷