🪷 अयोध्याकाण्ड · Sarga 92

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 92 · 39 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.92.1
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१॥
Vālmīki 2.92.2
तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२॥
Vālmīki 2.92.3
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३॥
Vālmīki 2.92.4
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४॥
Vālmīki 2.92.5
सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: ।तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५॥
Vālmīki 2.92.6
अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: ।अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ॥ २.९२.६॥
Vālmīki 2.92.7
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७॥
Vālmīki 2.92.8
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: ।आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ॥ २.९२.८॥
Vālmīki 2.92.9
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।प्रत्युवाच महातेजा भरद्वाजो महातपा: ॥ २.९२.९॥
Vālmīki 2.92.10
भरतार्द्धतृतीयेषु योजनेष्वजने वने ।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ॥ २.९२.१०॥
Vālmīki 2.92.11
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११॥
Vālmīki 2.92.12
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: ।तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२॥
Vālmīki 2.92.13
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३॥
Vālmīki 2.92.14
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: ।हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४॥
Vālmīki 2.92.15
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया ।कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ॥ २.९२.१५॥
Vālmīki 2.92.16
असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६॥
Vālmīki 2.92.17
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७॥
Vālmīki 2.92.18
तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: ।विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८॥
Vālmīki 2.92.19
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: ।उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ॥ २.९२.१९॥
Vālmīki 2.92.20
यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२०॥
Vālmīki 2.92.21
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१॥
Vālmīki 2.92.22
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: ।कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२॥
Vālmīki 2.92.23
एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ ।उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३॥
Vālmīki 2.92.24
यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ ।राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ॥ २.९२.२४॥
Vālmīki 2.92.25
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५॥
Vālmīki 2.92.26
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।यतो मूलं हि पश्यामि व्यसनं महदात्मन: ॥ २.९२.२६॥
Vālmīki 2.92.27
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ॥ २.९२.२७॥
Vālmīki 2.92.28
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८॥
Vālmīki 2.92.29
न दोषेणावगन्तव्या कैकेयी भरत त्वया ।रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९॥
Vālmīki 2.92.30
देवानां दानवानां च ऋषीणां भावितात्मनाम् ।हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३०॥
Vālmīki 2.92.31
अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् ।आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१॥
Vālmīki 2.92.32
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ॥ २.९२.३२॥
Vālmīki 2.92.33
गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: ।जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ॥ २.९२.३३॥
Vālmīki 2.92.34
विविधान्यपि यानानि महान्ति च लघूनि च ।प्रययु: सुमहार्हाणि पादैरेव पदातय: ॥ २.९२.३४॥
Vālmīki 2.92.35
अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: ।रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ॥ २.९२.३५॥
Vālmīki 2.92.36
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ॥ २.९२.३६॥
Vālmīki 2.92.37
सा प्रयाता महासेना गजवाजिरथाकुला ।दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ॥ २.९२.३७॥
Vālmīki 2.92.38
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: ।गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८॥
Vālmīki 2.92.39
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷