🪷 अयोध्याकाण्ड · Sarga 91
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 91 · 83 ślokas
🪷 Devanāgarī Ślokas
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥२-९१-१॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥२-९१-२॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥२-९१-३॥
सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् ।मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥२-९१-४॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागत: ।कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥२-९१-५॥
भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥२-९१-६॥
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ॥२-९१-७॥
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: ।प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥२-९१-८॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।न हिंस्युरिति तेनाहमेक एव समागत: ॥२-९१-९॥
आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा ।ततस्तु चक्रे भरत: सेनाया: समुपागमम् ॥२-९१-१०॥
अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥२-९१-११॥
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥२-९१-१२॥
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥२-९१-१३॥
प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ॥२-९१-१४॥
अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् ।अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥२-९१-१५॥
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ॥२-९१-१६॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥२-९१-१७॥
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: ।सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ॥२-९१-१८॥
वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् ।दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥२-९१-१९॥
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥२-९१-२०॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।सुरादीनि च पेयानि मांसानि विविधानि च ॥२-९१-२१॥
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ॥२-९१-२२॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: ।आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥२-९१-२३॥
मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: ।उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ॥२-९१-२४॥
ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: ।दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥२-९१-२५॥
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: ।प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ॥२-९१-२६॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ॥२-९१-२७॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ॥२-९१-२८॥
बभूव हि समा भूमि: समन्तात्पञ्चयोजना ।शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ॥२-९१-२९॥
तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: ।आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ॥२-९१-३०॥
उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् ।आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥२-९१-३१॥
चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥२-९१-३२॥
सितमेघनिभं चापि राजवेश्मसु तोरणम् ।दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥२-९१-३३॥
चतुरश्रमसम्बाधं शयनासनयानवत् ।दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥२-९१-३४॥
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ॥२-९१-३५॥
अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: ।बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥२-९१-३६॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ॥२-९१-३७॥
आसनं पूजयामास रामायाभिप्रणम्य च ।वालव्यजनमादाय न्यषीदत् सचिवासने ॥२-९१-३८॥
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: ।तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ॥२-९१-३९॥
ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: ।उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥२-९१-४०॥
तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: ।रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ॥२-९१-४१॥
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: ।आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ॥२-९१-४२॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: ।आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ॥२-९१-४३॥
याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते ।आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ॥२-९१-४४॥
नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: ।एते गन्धर्वराजानो भरतस्याग्रतो जगु: ॥२-९१-४५॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥२-९१-४६॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥२-९१-४७॥
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: ।अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥२-९१-४८॥
तत: सरलतालाश्च तिलका नक्तमालका: ।प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ॥२-९१-४९॥
शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: ।मालती मल्लिका जातिर्याश्चान्या: कानने लता: ॥२-९१-५०॥
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: ।मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥२-९१-५१॥
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ॥२-९१-५२॥
संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: ।परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ॥२-९१-५३॥
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् ।अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥२-९१-५४॥
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ॥२-९१-५५॥
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: ।मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ॥२-९१-५६॥
तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: ।अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ॥२-९१-५७॥
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥२-९१-५८॥
इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: ।अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥२-९१-५९॥
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: ।भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ॥२-९१-६०॥
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: ।समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ॥२-९१-६१॥
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ॥२-९१-६२॥
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: ।बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ॥२-९१-६३॥
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: ।बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥२-९१-६४॥
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ॥२-९१-६५॥
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: ।फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ॥२-९१-६६॥
पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: ।ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ॥२-९१-६७॥
बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: ।ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ॥२-९१-६८॥
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: ।प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ॥२-९१-६९॥
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥२-९१-७०॥
स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: ।यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ॥२-९१-७१॥
ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे ।बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ॥२-९१-७२॥
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ॥२-९१-७३॥
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ॥२-९१-७४॥
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।पादुकोपानहश्चैव युग्मानि च सहस्रश: ॥२-९१-७५॥
आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥२-९१-७६॥
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥२-९१-७७॥
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥२-९१-७८॥
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ॥२-९१-७९॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥२-९१-८०॥
इत्येवं रममाणानां देवानामिव नन्दने ।भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥२-९१-८१॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ॥२-९१-८२॥
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: ।तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ॥२-९१-८३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 90
- Next: Ayodhyā-Kāṇḍa Sarga 92 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷