🪷 अयोध्याकाण्ड · Sarga 90

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 90 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.90.1
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥२-९०-१॥
Vālmīki 2.90.2
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥२-९०-२॥
Vālmīki 2.90.3
तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥२-९०-३॥
Vālmīki 2.90.4
ऺवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥२-९०-४॥
Vālmīki 2.90.5
वसिष्ठसाहचर्य्यादिति भाव: ॥२-९०-५॥
Vālmīki 2.90.6
ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥२-९०-६॥
Vālmīki 2.90.7
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥२-९०-७॥
Vālmīki 2.90.8
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥२-९०-८॥
Vālmīki 2.90.9
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥२-९०-९॥
Vālmīki 2.90.10
किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥२-९०-१०॥
Vālmīki 2.90.11
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥२-९०-११॥
Vālmīki 2.90.12
नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।वनवासी भवेतीह समा: किल चतुर्दश ॥२-९०-१२॥
Vālmīki 2.90.13
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥२-९०-१३॥
Vālmīki 2.90.14
एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥२-९०-१४॥
Vālmīki 2.90.15
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥२-९०-१५॥
Vālmīki 2.90.16
न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥२-९०-१६॥
Vālmīki 2.90.17
अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥२-९०-१७॥
Vālmīki 2.90.18
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥२-९०-१८॥
Vālmīki 2.90.19
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥२-९०-१९॥
Vālmīki 2.90.20
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥२-९०-२०॥
Vālmīki 2.90.21
जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥२-९०-२१॥
Vālmīki 2.90.22
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥२-९०-२२॥
Vālmīki 2.90.23
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥२-९०-२३॥
Vālmīki 2.90.24
ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥२-९०-२४॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷