🪷 अयोध्याकाण्ड · Sarga 89

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 89 · 22 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.89.1
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: ।भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।।
Vālmīki 2.89.2
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।।
Vālmīki 2.89.3
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.३ ।।
Vālmīki 2.89.4
इति संवदतोरेवमन्योन्यं नरसिंहयो: ।आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.४ ।।
Vālmīki 2.89.5
कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् ।कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।।
Vālmīki 2.89.6
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।।
Vālmīki 2.89.7
सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् ।गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.७ ।।
Vālmīki 2.89.8
ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ।प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।।
Vālmīki 2.89.9
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा ।नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।।
Vālmīki 2.89.10
ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् ।पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.१० ।।
Vālmīki 2.89.11
अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: ।शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.११ ।।
Vālmīki 2.89.12
तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.१२ ।।
Vālmīki 2.89.13
कौसल्या च सुमित्रा च याश्चान्या राजयोषित: ।पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.१३ ।।
Vālmīki 2.89.14
आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।।
Vālmīki 2.89.15
पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: ।वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.१५ ।।
Vālmīki 2.89.16
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।।
Vālmīki 2.89.17
ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् ।निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.१७ ।।
Vālmīki 2.89.18
सवैजयन्तास्तु गजा गजारोहप्रचोदिता: ।तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.१८ ।।
Vālmīki 2.89.19
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.१९ ।।
Vālmīki 2.89.20
सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् ।मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।।
Vālmīki 2.89.21
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.२१ ।।
Vālmīki 2.89.22
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷