🪷 अयोध्याकाण्ड · Sarga 88

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 88 · 30 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.88.1
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥
Vālmīki 2.88.2
अब्रवीद् जननीः सर्वा इह तेन महात्मना ।शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥
Vālmīki 2.88.3
महा भाग कुलीनेन महा भागेन धीमता ।जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥
Vālmīki 2.88.4
अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥
Vālmīki 2.88.5
प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥
Vālmīki 2.88.6
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥
Vālmīki 2.88.7
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥
Vālmīki 2.88.8
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥
Vālmīki 2.88.9
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥
Vālmīki 2.88.10
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥
Vālmīki 2.88.11
न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥
Vālmīki 2.88.12
विदेह राजस्य सुता सीता च प्रिय दर्शना ।दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥
Vālmīki 2.88.13
इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥
Vālmīki 2.88.14
मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥
Vālmīki 2.88.15
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥
Vālmīki 2.88.16
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥
Vālmīki 2.88.17
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥
Vālmīki 2.88.18
सार्वभौम कुले जातः सर्व लोक सुख आवहः ।सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥
Vālmīki 2.88.19
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥
Vālmīki 2.88.20
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥
Vālmīki 2.88.21
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥
Vālmīki 2.88.22
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥
Vālmīki 2.88.23
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥
Vālmīki 2.88.24
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥
Vālmīki 2.88.25
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥
Vālmīki 2.88.26
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥
Vālmīki 2.88.27
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥
Vālmīki 2.88.28
वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥
Vālmīki 2.88.29
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।प्रसाद्यमानः शिरसा मया स्वयम् ।बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥
Vālmīki 2.88.30
ततोन्रुवत्सयामि चिराय राघवम् ।वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷