🪷 अयोध्याकाण्ड · Sarga 98
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 98 · 18 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:।अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २.९८.१॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्।भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २.९८.२॥
क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:।लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २.९८.३॥
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा।समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ॥ २.९८.४॥
अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:।वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ॥ २.९८.५॥
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २.९८.६॥
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्।भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २.९८.७॥
यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ।शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २.९८.८॥
यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:।अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ॥ २.९८.९॥
सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्।मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २.९८.१०॥
कृतकत्या महाभागा वैदेही जनकात्मजा।भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ॥ २.९८.११॥
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:।यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ॥ २.९८.१२॥
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ॥ २.९८.१३॥
एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:।पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ॥ २.९८.१४॥
स तानि द्रुमजालानि जातानि गिरिसानुषु।पुष्पिताग्राणि मध्येन जगाम वदतां वर: ॥ २.९८.१५॥
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ॥ २.९८.१६॥
तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:।अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ॥ २.९८.१७॥
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्।गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २.९८.१८ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 97
- Next: Ayodhyā-Kāṇḍa Sarga 99 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷