🪷 अयोध्याकाण्ड · Sarga 99
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 99 · 42 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
निविष्टायां तु सेनायामुत्सुको भरतस्तदा।जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१॥
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय।इति त्वरितमग्रे स जगाम गुरुवत्सल: ॥ २.९९.२॥
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३॥
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४॥
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५॥
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:।कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ॥ २.९९.६॥
ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्।मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ॥ २.९९.७॥
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा।शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ॥ २.९९.८॥
मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्।नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ॥ २.९९.९॥
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ॥ २.९९.१०॥
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११॥
यमेवाधातुमिच्छन्ति तापसा: सततं वने।तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ॥ २.९९.१२॥
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्।आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३॥
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४॥
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:।जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५॥
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:।सर्वान् कामान् परित्यज्य वने वसति राघव: ॥ २.९९.१६॥
इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्।रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७॥
एवं स विलपंस्तस्मिन् वने दशरथात्मज:।ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९॥
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:।रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ॥ २.९९.२०॥
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:।शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ॥ २.९९.२१॥
महारजतवासोभ्यामसिभ्यां च विराजिताम्।रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२॥
गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:।अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ॥ २.९९.२३॥
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्।ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४॥
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्।उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५॥
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।ददर्श राममासीनमभित: पावकोपमम् ॥ २.९९.२६॥
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७॥
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८॥
तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:।अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ॥ २.९९.२९॥
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा।अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३०॥
य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ॥ २.९९.३१॥
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:।मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२॥
अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ॥ २.९९.३३॥
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:।शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४॥
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५॥
मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:।धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६॥
इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:।पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७॥
दु:खाभितप्तो भरतो राजपुत्रो महाबल:।उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८॥
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९॥
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४०॥
तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये।दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१॥
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये।वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 98
- Next: Ayodhyā-Kāṇḍa Sarga 100 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷