🪷 अयोध्याकाण्ड · Sarga 100
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 100 · 77 ślokas
🪷 Devanāgarī Ślokas
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥२-१००-१॥
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।भ्रातरं भरतं राम: परिजग्राह बाहुना ॥२-१००-२॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: ।अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥२-१००-३॥
क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥२-१००-४॥
चिरस्य बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥२-१००-५॥
कच्चिद्धारयते तात राजा यत्त्वमिहागत: ।कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥२-१००-६॥
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥२-१००-७॥
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥२-१००-८॥
कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: ।राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥२-१००-९॥
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥२-१००-१०॥
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥२-१००-११॥
कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥२-१००-१२॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: ।हुतं च होष्यमाणं च काले वेदयते सदा ॥२-१००-१३॥
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥२-१००-१४॥
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥२-१००-१५॥
कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥२-१००-१६॥
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥२-१००-१७॥
कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे ।कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥२-१००-१८॥
कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह ।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥२-१००-१९॥
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥२-१००-२०॥
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: ।विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥२-१००-२१॥
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: ।त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥२-१००-२२॥
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥२-१००-२३॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: ।अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥२-१००-२४॥
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥२-१००-२५॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: ।जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥२-१००-२६॥
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥२-१००-२७॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥२-१००-२८॥
कच्चित्त्वां नावजानन्ति याजका: पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥२-१००-२९॥
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥२-१००-३०॥
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: ।कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥२-१००-३१॥
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥२-१००-३२॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥२-१००-३३॥
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: ।भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥२-१००-३४॥
कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: ।कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥२-१००-३५॥
कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् ।यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥२-१००-३६॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥२-१००-३७॥
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥२-१००-३८॥
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥२-१००-३९॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥२-१००-४०॥
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: ।सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥२-१००-४१॥
ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा ।जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥२-१००-४२॥
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥२-१००-४३॥
कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: ।देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥२-१००-४४॥
प्रहृष्टनरनारीक: समाजोत्सवशोभित: ।सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥२-१००-४५॥
अदेवमातृको रम्य: श्वापदै: परिवर्जित: ।परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥२-१००-४६॥
विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: ।कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥२-१००-४७॥
कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: ।वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥२-१००-४८॥
तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥२-१००-४९॥
कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: ।कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥२-१००-५०॥
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: ।कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥२-१००-५१॥
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥२-१००-५२॥
कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया ।सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥२-१००-५३॥
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥२-१००-५४॥
आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥२-१००-५५॥
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥२-१००-५६॥
कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥२-१००-५७॥
गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥२-१००-५८॥
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥२-१००-५९॥
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥२-१००-६०॥
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥२-१००-६१॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥२-१००-६२॥
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: ।उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥२-१००-६३॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥२-१००-६४॥
कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: ।आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥२-१००-६५॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥२-१००-६६॥
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥२-१००-६७॥
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: ।कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥२-१००-६८॥
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: ।अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥२-१००-६९॥
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥२-१००-७०॥
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥२-१००-७१॥
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥२-१००-७२॥
कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: ।कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥२-१००-७३॥
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥२-१००-७४॥
यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: ।तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥२-१००-७५॥
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥२-१००-७६॥
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् ।अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥२-१००-७७॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 99
- Next: Ayodhyā-Kāṇḍa Sarga 101 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷