🪷 अयोध्याकाण्ड · Sarga 101

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 101 · 9 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.101.1
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ॥२-१०१-१॥
Vālmīki 2.101.2
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥२-१०१-२॥
Vālmīki 2.101.3
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।अभिषेचय चात्मानं कुलस्यास्य भवाय न: ॥२-१०१-३॥
Vālmīki 2.101.4
राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥२-१०१-४॥
Vālmīki 2.101.5
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।दिवमार्यो गतो राजा यायजूक: सतां मत: ॥२-१०१-५॥
Vālmīki 2.101.6
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥२-१०१-६॥
Vālmīki 2.101.7
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ॥२-१०१-७॥
Vālmīki 2.101.8
प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ॥२-१०१-८॥
Vālmīki 2.101.9
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ॥२-१०१-९॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷