🪷 अयोध्याकाण्ड · Sarga 102

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 102 · 49 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.102.1
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।राघवो भरतेनोक्तां बभूव गतचेतन: ॥ २.१०२.१॥
Vālmīki 2.102.2
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ॥ २.१०२.२॥
Vālmīki 2.102.3
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: ।वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २.१०२.३॥
Vālmīki 2.102.4
तथा निपतितं रामं जगत्यां जगतीपतिम् ।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २.१०२.४॥
Vālmīki 2.102.5
भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् ।रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ॥ २.१०२.५॥
Vālmīki 2.102.6
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ॥ २.१०२.६॥
Vālmīki 2.102.7
स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २.१०२.७॥
Vālmīki 2.102.8
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २.१०२.८॥
Vālmīki 2.102.9
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: ।यो मृतो मम शोकेन मया चापि न संस्कृत: ॥ २.१०२.९॥
Vālmīki 2.102.10
अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ॥ २.१०२.१०॥
Vālmīki 2.102.11
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २.१०२.११॥
Vālmīki 2.102.12
समाप्तवनवासं मामयोध्यायां परन्तप ।को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २.१०२.१२॥
Vālmīki 2.102.13
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ॥ २.१०२.१३॥
Vālmīki 2.102.14
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: ।उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ॥ २.१०२.१४॥
Vālmīki 2.102.15
सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण ।भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २.१०२.१५॥
Vālmīki 2.102.16
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २.१०२.१६॥
Vālmīki 2.102.17
ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् ।अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ॥ २.१०२.१७॥
Vālmīki 2.102.18
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २.१०२.१८॥
Vālmīki 2.102.19
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ॥ २.१०२.१९॥
Vālmīki 2.102.20
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ॥ २.१०२.२०॥
Vālmīki 2.102.21
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २.१०२.२१॥
Vālmīki 2.102.22
ततो नित्यानुगस्तेषां विदितात्मा महामति: ।मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २.१०२.२२॥
Vālmīki 2.102.23
सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् ।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २.१०२.२३॥
Vālmīki 2.102.24
ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: ।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २.१०२.२४॥
Vālmīki 2.102.25
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २.१०२.२५॥
Vālmīki 2.102.26
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २.१०२.२६॥
Vālmīki 2.102.27
एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २.१०२.२७॥
Vālmīki 2.102.28
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: ।पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ॥ २.१०२.२८॥
Vālmīki 2.102.29
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ॥ २.१०२.२९॥
Vālmīki 2.102.30
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०२.३०॥
Vālmīki 2.102.31
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २.१०२.३१॥
Vālmīki 2.102.32
तत: पर्णकुटीद्वारमासाद्य जगतीपति: ।परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २.१०२.३२॥
Vālmīki 2.102.33
तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ॥ २.१०२.३३॥
Vālmīki 2.102.34
महाबलानां रुदतां कुर्वतामुदकं पितु: ।विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ॥ २.१०२.३४॥
Vālmīki 2.102.35
अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् ।तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ॥ २.१०२.३५॥
Vālmīki 2.102.36
अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् ।अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ॥ २.१०२.३६॥
Vālmīki 2.102.37
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: ।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ॥ २.१०२.३७॥
Vālmīki 2.102.38
अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ॥ २.१०२.३८॥
Vālmīki 2.102.39
भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् ।ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ॥ २.१०२.३९॥
Vālmīki 2.102.40
सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता ।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २.१०२.४०॥
Vālmīki 2.102.41
तेन वित्रासिता नागा: करेणुपरिवारिता: ।आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ॥ २.१०२.४१॥
Vālmīki 2.102.42
वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: ।व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ॥ २.१०२.४२॥
Vālmīki 2.102.43
रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: ।तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ॥ २.१०२.४३॥
Vālmīki 2.102.44
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २.१०२.४४॥
Vālmīki 2.102.45
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।आसीनं स्थण्डिले रामं ददर्श सहसा जन: ॥ २.१०२.४५॥
Vālmīki 2.102.46
विगर्हमाण: कैकेयीं सहितो मन्थरामपि ।अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २.१०२.४६॥
Vālmīki 2.102.47
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् ।पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ॥ २.१०२.४७॥
Vālmīki 2.102.48
स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ॥ २.१०२.४८॥
Vālmīki 2.102.49
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: ।गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ॥ २.१०२.४९ ॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷