🪷 अयोध्याकाण्ड · Sarga 103
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 103 · 32 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षित: ॥ २.१०३.१॥
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ॥ २.१०३.३॥
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ॥ २.१०३.४॥
इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: ।स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५॥
जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: ।भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ॥ २.१०३.६॥
अद्यायमपि ते पुत्र: क्लेशानामतथोचित: ।नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ॥ २.१०३.९॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: ।राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१०॥
तस्य देवसमानस्य पार्थिवस्य महात्मन: ।नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११॥
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: ।कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ॥ २.१०३.१२॥
अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा ।यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।कथं दु:खेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०३.१५॥
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६॥
सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: ।आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ॥ २.१०३.१७॥
तासां राम: समुत्थाय जग्राह चरणान् शुभान् ।मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ॥ २.१०३.१८॥
ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: ।प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ॥ २.१०३.१९॥
सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: ।अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२०॥
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: ।वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१॥
सीतापि चरणांस्तासामुपसंगृह्य दु:खिता ।श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ॥ २.१०३.२२॥
तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा ।वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३॥
विदेहराजस्य सुता स्नुषा दशरथस्य च ।रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ॥ २.१०३.२५॥
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ॥ २.१०३.२६॥
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: ।पादावासाद्य जग्राह वसिष्ठस्य च राघव: ॥ २.१०३.२७॥
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: ।प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ॥ २.१०३.२८॥
ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: ।जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९॥
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ॥ २.१०३.३०॥
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१॥
स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: ।वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ॥ २.१०३.३२ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 102
- Next: Ayodhyā-Kāṇḍa Sarga 104 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷