🪷 अयोध्याकाण्ड · Sarga 104

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 104 · 27 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.104.1
तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् ।लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१॥
Vālmīki 2.104.2
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२॥
Vālmīki 2.104.3
किं निमित्तमिमं देशं कृष्णाजिनजटाधर: ।हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३॥
Vālmīki 2.104.4
इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना ।प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४॥
Vālmīki 2.104.5
आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् ।गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ॥ २.१०४.५॥
Vālmīki 2.104.6
स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप ।चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६॥
Vālmīki 2.104.7
सा राज्यफलमप्राप्य विधवा शोककर्शिता ।पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७॥
Vālmīki 2.104.8
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८॥
Vālmīki 2.104.9
इमा: प्रकृतय: सर्वा विधवा मातरश्च या: ।त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९॥
Vālmīki 2.104.10
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ॥ २.१०४.१०॥
Vālmīki 2.104.11
भवत्वविधवा भूमि: समग्रा पतिना त्वया ।शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११॥
Vālmīki 2.104.12
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया ।भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२॥
Vālmīki 2.104.13
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३॥
Vālmīki 2.104.14
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: ।रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ॥ २.१०४.१४॥
Vālmīki 2.104.15
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: ।भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ॥ २.१०४.१५॥
Vālmīki 2.104.16
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: ।राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ॥ २.१०४.१६॥
Vālmīki 2.104.17
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७॥
Vālmīki 2.104.18
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८॥
Vālmīki 2.104.19
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: ।भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९॥
Vālmīki 2.104.20
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।राज्ये वापि महाराजो मां वासयितुमीश्वर: ॥ २.१०४.२०॥
Vālmīki 2.104.21
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१॥
Vālmīki 2.104.22
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२॥
Vālmīki 2.104.23
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३॥
Vālmīki 2.104.24
एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।व्यादिश्य च महातेजा दिवं दशरथो गत: ॥ २.१०४.२४॥
Vālmīki 2.104.25
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५॥
Vālmīki 2.104.26
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: ।उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६॥
Vālmīki 2.104.27
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: ।तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷