🪷 अयोध्याकाण्ड · Sarga 105
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 105 · 46 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: ।शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ॥ २.१०५.१॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२॥
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४॥
महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५॥
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: ।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६॥
सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते ।राम तेन तु दुर्जीवं य: परानुपजीवति ॥ २.१०५.७॥
यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ॥ २.१०५.८॥
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ॥ २.१०५.९॥
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१०॥
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११॥
तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: ।अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ॥ २.१०५.१२॥
तस्य साध्वित्यमन्यन्त नागरा विविधा जना: ।भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ॥ २.१०५.१३॥
तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् ।राम: कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४॥
नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: ।इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ॥ २.१०५.१५॥
सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७॥
यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ॥ २.१०५.१८॥
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ॥ २.१०५.२०॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२॥
गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: ।जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४॥
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ॥ २.१०५.२५॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ॥ २.१०५.२७॥
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ॥ २.१०५.२८॥
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९॥
एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: ।तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ॥ २.१०५.३०॥
वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: ।आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ॥ २.१०५.३१॥
धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ॥ २.१०५.३२॥
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ॥ २.१०५.३३॥
कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: ।स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ॥ २.१०५.३४॥
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ॥ २.१०५.३५॥
आयुरुत्तममासाद्य भोगानपि च राघव: ।स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ॥ २.१०५.३६॥
स जीर्णं मानुषं देहं परित्यज्य पिता हि न: ।दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७॥
तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति ।तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ॥ २.१०५.३८॥
एते बहुविधा: शोका विलापरुदिते तथा ।वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९॥
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४०॥
यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा ।तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१॥
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ॥ २.१०५.४२॥
तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: ।कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३॥
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४॥
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ॥ २.१०५.४५॥
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ॥ २.१०५.४६ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 104
- Next: Ayodhyā-Kāṇḍa Sarga 106 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷