🪷 अयोध्याकाण्ड · Sarga 106
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 106 · 35 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 2.106local sarga route with all Sanskrit ślokasAyodhyā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ॥ २.१०६.१॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२॥
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३॥
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ॥ २.१०६.४॥
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५॥
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: ।सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६॥
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।अविषह्यतमं दु:खमासादयितुमर्हति ॥ २.१०६.७॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८॥
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९॥
कथं दशरथाज्जात: शुद्धाभिजनकर्मण: ।जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१०॥
गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च ।तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२॥
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: ।राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ॥ २.१०६.१३॥
साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् ।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४॥
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५॥
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: ।अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: ।पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७॥
क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् ।ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८॥
एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् ।येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ॥ २.१०६.२०॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२॥
श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ।स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३॥
हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् ।भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४॥
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ॥ २.१०६.२५॥
इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह ।ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ॥ २.१०६.२६॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।विजित्य तरसा लोकान् मरुद्भिरिव वासव: ॥ २.१०६.२७॥
ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् ।सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८॥
अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने ।अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३०॥
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ॥ २.१०६.३१॥
अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: ।गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२॥
तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: ।न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ॥ २.१०६.३३॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: ।न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ॥ २.१०६.३४॥
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: ।तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 105
- Next: Ayodhyā-Kāṇḍa Sarga 107 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷