🪷 अयोध्याकाण्ड · Sarga 107

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 107 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.107.1
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥२-१०७-१॥
Vālmīki 2.107.2
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥२-१०७-२॥
Vālmīki 2.107.3
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥२-१०७-३॥
Vālmīki 2.107.4
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥२-१०७-४॥
Vālmīki 2.107.5
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥२-१०७-५॥
Vālmīki 2.107.6
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥२-१०७-६॥
Vālmīki 2.107.7
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥२-१०७-७॥
Vālmīki 2.107.8
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥२-१०७-८॥
Vālmīki 2.107.9
भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥२-१०७-९॥
Vālmīki 2.107.10
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥२-१०७-१०॥
Vālmīki 2.107.11
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥२-१०७-११॥
Vālmīki 2.107.12
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ॥२-१०७-१२॥
Vālmīki 2.107.13
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥२-१०७-१३॥
Vālmīki 2.107.14
एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥२-१०७-१४॥
Vālmīki 2.107.15
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥२-१०७-१५॥
Vālmīki 2.107.16
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥२-१०७-१६॥
Vālmīki 2.107.17
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥२-१०७-१७॥
Vālmīki 2.107.18
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥२-१०७-१८॥
Vālmīki 2.107.19
शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥२-१०७-१९॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷