🪷 अयोध्याकाण्ड · Sarga 108
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 108 · 18 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: ।उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ॥ २.१०८.१॥
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ॥ २.१०८.२॥
क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् ।यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३॥
तस्मान्माता पिता चेति राम सज्जेतयो नर: ।उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४॥
यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् ।उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५॥
एवमेव मनुष्याणां पिता माता गृहं वसु ।आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ॥ २.१०८.६॥
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ॥ २.१०८.७॥
समृद्धायामयोध्यायामात्मानमभिषेचय ।एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८॥
राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९॥
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ॥ २.१०८.१०॥
बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च ।संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११॥
गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२॥
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३॥
अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: ।अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४॥
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५॥
दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: ।यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६॥
स नास्ति परमित्येव कुरु बुद्धिं महामते ।प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ॥ २.१०८.१७॥
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ॥ २.१०८.१८ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 107
- Next: Ayodhyā-Kāṇḍa Sarga 109 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷