🪷 अयोध्याकाण्ड · Sarga 109

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 109 · 39 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.109.1
जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥२-१०९-१॥
Vālmīki 2.109.2
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥२-१०९-२॥
Vālmīki 2.109.3
निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥२-१०९-३॥
Vālmīki 2.109.4
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥२-१०९-४॥
Vālmīki 2.109.5
अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥२-१०९-५॥
Vālmīki 2.109.6
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥२-१०९-६॥
Vālmīki 2.109.7
कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥२-१०९-७॥
Vālmīki 2.109.8
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥२-१०९-८॥
Vālmīki 2.109.9
कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥२-१०९-९॥
Vālmīki 2.109.10
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥२-१०९-१०॥
Vālmīki 2.109.11
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥२-१०९-११॥
Vālmīki 2.109.12
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥२-१०९-१२॥
Vālmīki 2.109.13
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥२-१०९-१३॥
Vālmīki 2.109.14
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥२-१०९-१४॥
Vālmīki 2.109.15
एक: पालयते लोकमेक: पालयते कुलम् ।मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥२-१०९-१५॥
Vālmīki 2.109.16
सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥२-१०९-१६॥
Vālmīki 2.109.17
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥२-१०९-१७॥
Vālmīki 2.109.18
असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥२-१०९-१८॥
Vālmīki 2.109.19
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥२-१०९-१९॥
Vālmīki 2.109.20
क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥२-१०९-२०॥
Vālmīki 2.109.21
कायेन कुरुते पापं मनसा सम्प्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥२-१०९-२१॥
Vālmīki 2.109.22
भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥२-१०९-२२॥
Vālmīki 2.109.23
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥२-१०९-२३॥
Vālmīki 2.109.24
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥२-१०९-२४॥
Vālmīki 2.109.25
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥२-१०९-२५॥
Vālmīki 2.109.26
वनवासं वसन्नेवं शुचिर्नियतभोजन: ।मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥२-१०९-२६॥
Vālmīki 2.109.27
सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥२-१०९-२७॥
Vālmīki 2.109.28
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥२-१०९-२८॥
Vālmīki 2.109.29
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥२-१०९-२९॥
Vālmīki 2.109.30
अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥२-१०९-३०॥
Vālmīki 2.109.31
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥२-१०९-३१॥
Vālmīki 2.109.32
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥२-१०९-३२॥
Vālmīki 2.109.33
निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥२-१०९-३३॥
Vālmīki 2.109.34
यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥२-१०९-३४॥
Vālmīki 2.109.35
त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥२-१०९-३५॥
Vālmīki 2.109.36
धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥२-१०९-३६॥
Vālmīki 2.109.37
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥२-१०९-३७॥
Vālmīki 2.109.38
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥२-१०९-३८॥
Vālmīki 2.109.39
स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥२-१०९-३९॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷