🪷 अयोध्याकाण्ड · Sarga 110
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 110 · 34 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह ।जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१॥
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२॥
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह ।स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३॥
असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: ।आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ॥ २.११०.४॥
तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ॥ २.११०.५॥
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: ।स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ॥ २.११०.६॥
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७॥
इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: ।कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८॥
विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् ।बाणस्य तु महाबाहुरनरण्यो महायशा: ॥ २.११०.९॥
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१०॥
अनरण्यान्महाबाहु: पृथू राजा बभूव ह ।तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ॥ २.११०.११॥
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: ।धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२॥
युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत ।मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ॥ २.११०.१३॥
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् ।यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ॥ २.११०.१४॥
भरतात्तु महाबाहोरसितो नाम जायत ।यस्यैते प्रतिराजान उदपद्यन्त शत्रव: ।हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ॥ २.११०.१५॥
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: ।स च शैलवरे रम्ये बभूवाभिरतो मुनि: ॥ २.११०.१६॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: ।एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७॥
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: ।तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८॥
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: ।धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ॥ २.११०.१९॥
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।तत: सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२०॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।गरेण सह तेनैव जात: स सगरो ऽभवत् ॥ २.११०.२१॥
स राजा सगरो नाम य: समुद्रमखानयत् ।इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ॥ २.११०.२२॥
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् ।जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ॥ २.११०.२३॥
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ॥ २.११०.२४॥
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: ।ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ॥ २.११०.२५॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: ।कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६॥
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: ।यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७॥
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: ।सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ॥ २.११०.२८॥
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: ।प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ॥ २.११०.२९॥
अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: ।नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ॥ २.११०.३०॥
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ॥ २.११०.३१॥
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: ।तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२॥
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: ।पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३॥
स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि ।प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ॥ २.११०.३४ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 109
- Next: Ayodhyā-Kāṇḍa Sarga 111 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷