🪷 अयोध्याकाण्ड · Sarga 111

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 111 · 32 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.111.1
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥२-१११-१॥
Vālmīki 2.111.2
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥२-१११-२॥
Vālmīki 2.111.3
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥२-१११-३॥
Vālmīki 2.111.4
सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥२-१११-४॥
Vālmīki 2.111.5
इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥२-१११-५॥
Vālmīki 2.111.6
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥२-१११-६॥
Vālmīki 2.111.7
भरतस्य वच: कुर्वन् याचमानस्य राघव ।आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥२-१११-७॥
Vālmīki 2.111.8
एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥२-१११-८॥
Vālmīki 2.111.9
यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥२-१११-९॥
Vālmīki 2.111.10
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥२-१११-१०॥
Vālmīki 2.111.11
स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥२-१११-११॥
Vālmīki 2.111.12
एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।उवाच परमोदार: सूतं परमदुर्मना: ॥२-१११-१२॥
Vālmīki 2.111.13
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥२-१११-१३॥
Vālmīki 2.111.14
अनाहारो निरालोको धनहीनो यथा द्विज: ।शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥२-१११-१४॥
Vālmīki 2.111.15
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥२-१११-१५॥
Vālmīki 2.111.16
तमुवाच महातेजा रामो राजर्षिसत्तम: ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥२-१११-१६॥
Vālmīki 2.111.17
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥२-१११-१७॥
Vālmīki 2.111.18
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥२-१११-१८॥
Vālmīki 2.111.19
आसीनस्त्वेव भरत: पौरजानपदं जनम् ।उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥२-१११-१९॥
Vālmīki 2.111.20
ते तमूचुर्महात्मानं पौरजानपदा जना: ।काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥२-१११-२०॥
Vālmīki 2.111.21
एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥२-१११-२१॥
Vālmīki 2.111.22
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥२-१११-२२॥
Vālmīki 2.111.23
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥२-१११-२३॥
Vālmīki 2.111.24
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥२-१११-२४॥
Vālmīki 2.111.25
न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥२-१११-२५॥
Vālmīki 2.111.26
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।अहमेव निवत्स्यामि चतुर्दश समा वने ॥२-१११-२६॥
Vālmīki 2.111.27
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥२-१११-२७॥
Vālmīki 2.111.28
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥२-१११-२८॥
Vālmīki 2.111.29
अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥२-१११-२९॥
Vālmīki 2.111.30
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥२-१११-३०॥
Vālmīki 2.111.31
अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥२-१११-३१॥
Vālmīki 2.111.32
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।अनृतन्मोचयानेन पितरं तं महीपतिम् ॥२-१११-३२॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷